________________
विश्वहितबोधिदायकश्रीअमीविजयगुरुभ्यो नमः ।
महामहोपाध्यायश्रीविनयविजयगणिविरचितं श्रीहैमप्रकाशाख्यं महाव्याकरणम्
॥ अथ उत्तरार्द्धम् ॥
॥श्रीजिनाय नमः॥ ॥एँ नमः ॥ ज्योतींषि सर्वाण्यथ सर्वभावा मूकाः स्वमुद्भावयितुं स्वरूपम् । सन्तोऽपि पश्यन्ति मुखं यदीयं ज्योतिः स्तुमस्तत्पटुवाङ्मयाख्यम् ॥ १ ॥ आख्याते जगदाख्याते दुष्प्रवेशेऽपि मादृशैः । देदीप्यते गुरुकृपादीपिकैवावलम्बनम् ॥ २॥
स्याद्यन्तशब्दप्रक्रियानिरूपणानन्तरमाख्यातप्रक्रियां निरूपयितुकाम आह । अथाख्यातप्रक्रिया निरूप्यते । आख्यातप्रत्ययाश्च धातोर्वक्तव्याः। अथेत्यादि-आख्यातप्रत्ययानां च धातुः प्रकृतिरिति धातुलक्षणमाह ।
क्रियार्थों धातुः ॥ १॥ [सि० ॥३॥३] कृतिः क्रिया पठनपचनादिरूपा साऽर्थो यस्य स धातुः स्यात् । स च त्रेधा गणजो नामजः सौत्रश्च । आयो नवधा । तथाहु:अदादयः कानुबन्धाश्चानुबन्धा दिवादयः । खादयष्टानुबन्धाश्च तानुबन्धास्तुदादयः॥१॥ रुधादयः पानुबन्धा यानुबन्धास्तनादयः । ज्यादयः शानुबन्धाश्च णानुबन्धाश्चरादयः॥२॥
उक्तानुबन्धरहिता भ्वादयः । यत्र नामैव प्रत्ययसम्बन्धाद्धातुत्वं याति स नामधातुः। सौत्राश्च कण्ड्वादयो दोलणप्रमुखाश्च । प्रत्येकमेते त्रिविधाः, परस्मैपदिन आत्मनेपदिन उभयपदिनश्च । उनुबन्ध इदनुबन्धः कर्तर्यप्यात्मनेपदी धातुः । ईगनुबन्धस्तूभयपदी परस्मैपदी शेषः ॥ १॥
क्रिया० कृतिः क्रिया प्रवृत्तिर्व्यापार इति यावत् । पूर्वापरीभूता साध्यमानरूपा, साऽर्थो यस्य स धातुः स्यात् । तत्र पूर्वावयवयोगात् पूर्वा, अपरावयवयोगादपरा । पूर्वोऽवयवोऽधिश्रयणादिरऽपर उदकसेकादिस्तौ द्वावपि भागौ पाकक्रियायां स्तः । अस्याश्च पिण्डीभूताया निदर्शयितुमशक्यत्वेऽप्यवयवशः साक्षात्करोमीति प्रतीतिविषयत्वादध्यक्षैवेयमन्यथा पश्य मृगो धावतीत्यादौ तस्या दर्शनकर्मता २५ न स्यादित्यतथा तथाभूता पूर्वापरीभूता । तथा च भाष्यम्-क्रिया नामेयमत्यन्तापरिदृष्टा पूर्वापरीभूतावयवा न शक्या पिण्डीभूता निदर्शयितुमिति । अन्वयव्यतिरेकाभ्यां च धातोरेव क्रियार्थत्वम् । तथाहि पचतीत्यादौ धातुप्रत्ययसमुदाये संसृष्टक्रियाकालकारकाधनेकार्थाभिधायिनि विक्लेदफलावसानं कर्तृव्या- २८
है. प्रका० उत्त० ६०
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org