________________
१३६
महामहोपाध्याय श्रीविनय विजयगणिविरचिते खोपज्ञ हैमलघु
स्तः यथा प्रियोऽयं प्रेयेयं यस्य यस्या वा स प्रियेदम् पुमान् प्रियेदम् स्त्री वा इत्येव भवतीति ॥३४॥ इदम् १-२ इति स्थिते “आद्वेरः” इति मस्य अत्वे "लुगस्या०” “लोकात् " इद औ इति स्थिते सूत्रम् - दो मः स्यादौ ॥ ३५ ॥ [ सि० २।१।३९]
स्वस्यादौ परे इदमो दो मः स्यात् । इमौ । इमे । इमम् । इमौ । इमान् । अन्वादेशे एनत् । ५ एनम् । एनौ । इत्यादि ॥ ३५ ॥
I
दो मः । द् ६-१ “लोकात् " " सो रुः” । म १ - १ " सो रु” “रः पदान्ते० " । स्यादि ७-१ “ङिड” “डित्यन्त्य०” । त्रिपदमिदं सूत्रम् । अनेन दस्य मत्वे “ऐदौ ० " इमौ । इम १-३ इति स्थि “जस इ:” “अवर्णस्ये॰" इमे । शेषं स्पष्टम् । स्व इति किम् ? प्रियेदमौ । इत्यादि इत्यत्रादिशब्दग्रहणात् गौणस्य इदमशब्दस्यान्यसम्बन्धिनि स्यादौ परे एवं रूपाणि- प्रियेदम् प्रियेदमौ प्रियेदमः प्रियेदमम् १० प्रियेदमौ प्रियेदमः प्रियेदमा प्रियेद्भ्याम् प्रियेदभिः प्रियेदमे प्रियेद्भ्याम् ३ प्रियेभ्यः २ प्रियेदमः
२ प्रियेदमोः प्रियेदमाम् प्रियेदमि प्रियेदमोः प्रियेदंसु हे प्रियेदम् हे प्रियेदमौ हे प्रियेदमः । एवं स्त्रीलिङ्गे गौणत्वेऽपि । नपुंसकलिङ्गे तु गौणत्वे प्रियेदम् प्रियेदमी प्रियेदमि गौणत्वाभावे तु परमायं परमेयं परमेमौ इत्यादि ॥ ३५ ॥ एतच्छन्दाधिकारे इदमोऽप्येवमित्यतिदेशवचनात् अन्वादेशे द्वितीयाटौसि परे इदमशब्दस्यापि एनत् स्यात् न तु वृत्त्यन्ते । यथा आगतोऽयं अथो एनं भोजय १५ एवमेनौ एनान् । अन्वादेशाभावे तु इमम् इमौ इमान् वृत्त्यन्तेऽपि परमेमं पश्येत्यादि । इदम् ३-१ इति स्थिते सूत्रम् —
टौस्यनः ॥ ३६ ॥ [ सि० २ ११३७ ]
स्वटासोः परयोरनकस्य इदमोऽनः स्यात् । अनेन । स्व इत्येव - प्रियेदमा । अनक इत्येव - इन ॥ ३६ ॥
टौ० । टाच ओस् च टोस् तस्मिन् टोस् ७-१ “लोकात्" । अन १-१ “सो रुः” “रः पदान्ते ० " । द्विपदमिदं ० । 'अनक' इति अक्प्रत्ययरहितस्य इदमः अनादेशो भवति इत्यनेन इदमोऽनादेशे “टाङसोरिनस्यौ” “अवर्णस्ये" अनेन अन्वादेशे एनेन । साकोऽप्येवं एनेन । अनक इति किम् ? इदम् ३-१ “त्यादिसर्वादेः स्वरेष्वन्त्यात् पूर्वोक्" इदकम् इति जाते “आद्वेरः” “लुगस्या०” "दो मः स्यादौ” अनेन अनादेशाभावे "टाङसो०" "अवर्णस्ये ८" इमकेन ।। ३६ ।। इदम् ३-२ २५ इति स्थिते सूत्रम् -
२०
अनक् ॥ ३७ ॥ [ सिं० २ १ ३६ ]
व्यञ्जनादौ स्वस्यादौ परे अनकस्य इदमः अः स्यात् । आभ्याम् ।। ३७ ।।
अन० । न विद्यते अक् यस्य स अनक् अनक् १-१ “दीर्घङयाबू० । शेषं सर्वमनुवृत्तितो ग्राह्यम् । अनेन इदमः अकारादेशे “अत आः स्यादौ ०" आभ्याम् || ३७ ॥ इदम् ३-३ इति स्थिते “अनक्” ३० इत्यकारे जाते अभिस् इति स्थिते "भिस ऐस्” इति सूत्रेण भिस ऐस्त्वे प्राप्ते नियमसूत्रम् -
" इदमदसोरक्येव" [ सि० १ | ४ | ३४ ] स्व इति किम् ? प्रियेदंभ्याम् । “भिस ऐस्" इति नियमाद् “एद्बहुस्भोसि" इत्येत्वे एभिः । अकि तु इभकैः । अस्मै । अस्मात् । अस्य । ३३ अनयोः । एषाम् । अस्मिन् । एषु ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org