________________
६।१३-१४)
अनुमानस्य वस्तुविषयत्वम् वर्त्तते । [३१४ क] किम् ? इत्याह-व्यक्तेतरस्वभावौ सकृद् व्याप्नुवतः । कस्य ? चेत:स्वलक्षणस्य क्रमेण स्वहेतुफलव्याप्ती का प्रतिबन्धः ?
ननु फले वृत्तिमद् विज्ञानं न हेतौ वृत्तिमत् स्वकाले तेदभावात् , अत एव हेतौ वृत्तिमत् न फले, तत्कथं चेतःस्वलक्षणस्य स्वहेतुफलव्याप्तिप्रतिपत्तिः यतः तत्र 'कः प्रतिबन्धः' इति स्यादिति चेत् ; अत्राह-संवृणोत्येव इत्यादि ।
[संवृणोत्येव यथा वित्तिः सामान्येन स्वार्थयोः । विशेषाहितफलैकान्तभेदानवभासेत स्वतः ॥१३॥ प्रत्यासत्त्या ययैक्यं स्यात् भ्रान्तिप्रत्यक्षयोस्तथा।
खहेतुफलयोरैक्यं ततस्तत्त्वं त्रयात्मकम् ॥१४॥ क्वचिदेकान्तसंभवे अनेकान्ता प्रतीतिरियं क्रियेत । यावता बुद्धः खण्डशः स्वार्थ- १० संवेदनं भवत् साकल्येन तावदान्ध्यविजृम्भणम् । परस्पर] .
संवृणोत्येव स्थागयत्येव । का ? इत्याह वृत्तिः (वित्तिः) ज्ञानम् । कान् ? इत्याहविशेषाहितु (हित) फलैकान्तभेदान् । कयोः ? इत्यत्राह-स्वार्थयोः स्वस्य अर्थस्य च । स्वतः आत्मना । केन ? इत्यत्राह-सामान्येन पूर्वापरैकत्वेन 'वार्थयोः' इत्येतद् अत्राप्यपेक्षं (क्ष्यम् ) भेदैकान्तविरोधिसामान्यात्मकहेतुफलग्राहिणी इति यावत् । नन्वेवं भवता १५ कल्प्यते, नन्वेवं (नत्वेव) सा प्रतिभासते इति चेत; अत्राह-अवभासेत इत्यादि । यथा शब्दश्रवणा[] तथाशब्दानुमानम् यत्तदोर्नित्यसम्बन्धात् । ततोऽयमर्थः-यथा येन प्रकारेण लोके प्रतीयते वित्तिः तथावभासेत । संवृतविशेषा च सामान्येन स्वार्थयोः लोके प्रतीयते अतः तथैवावभासते । न च हेतो (तौ) वृत्तस्य ज्ञानस्य फलग्रहणाभिमुख्यं विरुद्धम् , अन्यथा स्वात्मनि वृत्तस्य परत्र वृत्तिर्विरुद्धा भवेदिति सर्वस्य क्षणिकतापि (ताप्र)साधनमनवसरम् । एतावाँस्तु . विशेषः एकत्र देशस्य अन्यत्र कालस्य भेद इति ।
ननु हेतुफलसामान्यानां प्रतिभासते (ने) अन्योऽन्यविविक्तं वस्तुत्रयमापतितं नैकं तदात्मकम् , इतरथा नानैकं स्याज्जगत् [३१४ख] इति चेत् ; अत्राह-प्रत्यासन्न (सत्त्या) इत्यादि। प्रत्यापोद्यतया यथा (प्रत्यासत्त्या यया) तथाऽवभासलक्षणया, स्वहेतोः तथोत्पत्तिलक्षणया अशक्यविवेचनरूपया वा ऐक्यं तादात्म्यं स्यात् । कयोः ? इत्यत्राह-भ्रान्तिप्र-२० त्यक्षयोः। तथाहि-यदेव पतिशङ्खज्ञानम् अर्थक्रियास्थितिविरहात् भ्रान्तं तदेव स्वरूप अभ्रान्तं संस्थानमात्रे वा [5]विपर्ययात् । । न च तत्र ज्ञानान्तरस्य अविसंवादकल्पना, तत एव तदर्शनात् , अन्यथा अन्यतोऽपि न भवेत् , ततोऽपि अन्यत एव कल्पनादित्यव्यवस्थानात् । यथैव
(१) ज्ञानकाले । (२) ज्ञानकारणस्य फलस्य अभावात् । (३) "एतदेव स्वयं देवरुक्तं सिद्धिविनिश्चये । प्रत्यासत्या ययैक्यं स्यात् भ्रान्तिप्रत्यक्षयोस्तथा। भागतद्वदभेदेऽपि ततस्तत्वं द्वयात्मकम् ॥" -न्यायवि० वि० प्र० पृ० १६८ । (४) हेतुः पूर्वपर्यायः फलमुत्तरपर्यायः तयोश्च अन्वितं सामान्य द्रव्यमिति वस्तुत्रयम्।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org