SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३१८ श्रीदानोपदेशमाला (गा. ६५) तस्यासीत्कश्चिदाश्चर्यकारिवैद्यकविद्यया । नीरोगीकृतभूलोको वैद्यो वैद्यगणाग्रणीः ॥४॥ दैवाद्दिवं गते तस्मिन्नखिलोऽपि परिच्छदः । महीमहेन्द्रमागत्य प्रणत्येति व्यजिज्ञपत् ॥५॥ देव! यो भवतामासीद् वैद्यो विद्याविशारदः । स विपेदेऽस्य तु स्थाने स्थाप्यः कोऽप्यङ्गिरुक्छिदे ॥६॥ इत्याकर्ण्य नृपः प्राह तद्भूः कोऽप्यस्ति वा न वा । तेनाप्युक्तं सुतौ तस्यापठितौ स्तः स्तनन्धयौ ॥७॥ राजाप्याह किमेताभ्यां निर्गुणाभ्यां विधीयते ।। इत्युदित्वा ततोऽन्यस्मै भिषजे तत्पदं ददौ ॥८॥ अथ तौ शैशवान्मुक्तौ दध्यतुर्यत्पितुः पदम् । परो भुङ्क्ते तदावाभ्यां जाताभ्यां खलु को गुणः ॥९॥ उक्तंपुत्तेहिं जायएहिं कवणु गुणु अवगुणु कवणु मुएहिं । जा बप्पीकीभूहडी चंपिज्जइ अवरेहिं ॥१०॥ यद्वा निरक्षरावावामतः किं कुर्वहेऽथवा । चिन्तयालमधीत्यर्थे कोऽप्युपायो विधीयते ॥११॥ येन तातश्रियं पाणिकुशेशयशयालुताम् । आनयाव इति ध्यात्वा तौ स्वान्निर्ययतुः पुरात् ॥१२ ।। क्रमेण पृथिवीपृथ्वीं क्रामन्तौ तौ विवक्षितम् । पुरमासाद्य वैद्यस्य कस्यचित्सदनं गतौ ॥१३॥ अनिन्द्यवैद्यकग्रन्थपरमार्थप्रकाशकम् । श्रीवैद्यमभिवन्द्योपाविक्षतां तौ विचक्षणौ ॥१४॥ विज्ञाय समयं मूर्ध्नि योजिताञ्जलिकुड्मलौ । तौ वैद्यपुङ्गवं विज्ञापयामासतुरादरात् ॥१५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy