SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ बृहद्गच्छ का इतिहास रुचिरचरणयोगाद् दुर्धरैरावतोऽभूदनुपममदवारिप्रोल्लसत्कीर्तिघण्टः । प्रकटितसकलाङ्गो मोहसैन्याप्रधृष्यो, विबुधपतिनिषेव्यः श्रीमदानन्दसूरिः ॥७॥ समुन्नत्याधारः स्वरगतलसल्लक्षणधरः, श्रुतिश्रेयानंशिर्दधदपरचिह्नानि नितराम् । विनिर्यत्सद्धेतौ सुविषममहावादिसमरे, स्फुरत्तेजोदृप्यत्तरलनयनोऽश्वश्च निरगात् ॥८॥ श्रीनेमिचन्द्रसूरियः कर्ता प्रस्तुतप्रकरणस्य । सर्वज्ञागमपरमार्थवेदिनामग्रणीः कृतिनाम् ॥९॥ अन्यां च सुखावगमां, यः कृतवानुत्तराध्ययनवृत्तिम् । लघुवीरचरितमथ रत्नचूडचरितं च चतुरमतिः ॥१०॥ शश्वत्पण्डितमण्डलीकुमुदिनीकान्ताप्रमोदावहः, सर्वज्ञागमदेशनामृतकरैर्निर्वापयन् मेदिनीम् । भास्वत्सन्मुनितारकेषु नियतं सन्नायकत्वं दधत्, स श्रीमानुदियाय यो निजकुलव्योमाङ्गणालङ्कृतिः ॥११।। सूरिः श्रीजिनचन्द्रश्चन्द्रो निःशेषजनमनोदयितः । सौम्यत्व-कलावित्वप्रभृतिगुणानां स्वकुलभवनम् ॥१२॥ तच्छिष्यः प्रथमपदे, श्रीपदवानाऽऽनदेवसूरिरभूत् । अपरोऽपि तत्कनिष्ठः, श्रीमान् श्रीचन्द्रसूरिरभूत् ॥१३॥ इतश्च यो मेदपाटाध्युषितोऽपि धीमान्, दयाधनो धार्मिकमध्यवर्ती । सत्साधुताधर्मकृताभिलाषः, सुश्रावकत्वं परिपाति सम्यक् ॥१४॥ मारावल्या अल्लकश्रेष्ठिवयों, मुक्त्वा स्वीयं धाम हेतोः कुतश्चित् । आयातोऽसावर्बुदाध:प्रदेशे, तत्राप्यासीत् स्वैर्गुणैः सुप्रसिद्धः ॥१५॥ किञ्च कासह्रदधाम्नि निजं, धर्म्य धाम प्रवर्तितं येन । पोषधशाला सच्छ्रावकादिधर्मार्थमत्यर्थम् ॥१६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004033
Book TitleBruhad Gaccha ka Itihas
Original Sutra AuthorN/A
AuthorShivprasad
PublisherOmkarsuri Gyanmandir Surat
Publication Year2013
Total Pages298
LanguageHindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy