SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ हर्षवर्धनोपाध्यायनिबद्धः [दतीया विषमश्नन् यथा वैद्यो विक्रियां नोपगच्छति । कर्मोदये तथा भुञ्जानोऽपि ज्ञानी न बध्यते ॥२६॥ मन्त्रादिध्वस्तसामर्थ्यो न दहत्यनलो यथा। बथु नालं तथा ज्ञानशक्तिकुण्ठीकृतोऽप्ययम् ॥२७॥ मद्यं पिबन् यथा मत्तो न स्यादरतिमान् पुमान् । द्रव्यभोगं तथा कुर्वन् सम्यगदृष्टिर्न लिप्यते ॥२८॥ स्वरूपनिष्ठाः सर्वेऽपि भावा इति जिनेशगीः । तान् मत्वाऽऽत्मतया कर्तृ-कर्मक्लेशो वृथैव किम् ? ॥२९॥ भावाः स्वरूपविश्रान्ता लोके सर्वेऽत्र यद्यमी । मूढो हन्ताहमेवैको रज्ये यत् परवस्तुषु ॥३०॥ न रज्यते न च द्वेष्टि परभावेषु निर्ममः। ज्ञानमात्रं स्वरूपं स्वं पश्यन्नात्मरतिमुनिः ॥३१॥ इत्येवं स्व-परद्वयास्खलितचिच्छक्त्या विभाव्य म्फुटं भेदं स्वेतरयोर्विहाय च परान् भावान् समग्रानमून् । चित्तत्त्वे स्थिरतामुपैति परमां यो निर्विकाराशयः स स्यात् कमेकलङ्कपङ्कविकलो नित्यस्फुरच्चिद्घनः ॥३२॥ इत्यध्यात्मविन्दौ श्रीमद्धर्षवर्धनविरचिते आत्मस्वरूपभावनपरा तृतीया द्वात्रिंशिका समाप्ता ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004030
Book TitleAdhyatmabindu
Original Sutra AuthorN/A
AuthorMitranandvijay, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages108
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy