________________
Jain Education International
|| अध्यात्मविन्दुः ॥ ॥ चतुर्थी द्वात्रिंशिका ॥
प्रत्यग्ज्योतिर्जयति तदिदं पिष्टकर्मप्रपञ्चं दूरोन्मग्नं घनतरविभावार्णवावर्तवेगात् प्रोद्यत्तेजःप्रकरदलितध्वान्त कर्माष्टकाष्ठोत्फुल्लत्काष्ठावदननलिनं किन्नु मार्तण्डविम्बम् ॥१॥ कर्तृत्वादिविकारभारविगमाद् विभ्रत् सनत् सुस्थतां त्रुट्यद्बन्धचतुष्टयोल्लसदमन्दानन्द संवर्मितम् । शुद्धं शान्तमनन्तमप्रतिहतं विष्वग् विचित्रोल्लसद्ज्ञेयाकारकरम्बितं निरुपधि ज्योतिः समुज्जृम्भते ॥२॥ सर्वद्रव्यविवर्तचक्रमखिलं यद् बोधवारांनिधावेकांशस्थमिवोच्चकास्ति कलयच्छुद्धत्वमाकालिकम् । प्रोद्यत्त्विड्भरलीढविश्वभुवनाभोगं भरादुल्लसच्छान्तं तत्परमात्मतत्त्वमुदितानन्दं समुद्योतते ॥३॥ मुक्तेरध्वाऽयमेको भवति हि किल हग-ज्ञान-वृत्तत्रयात्मा तां संसूत्र्य स्थितिं यो विहरति निखिलान्यस्वसंस्पर्शशून्यः । तदर्शी तत्सतत्त्वानुचरणकलनावद्धकेलिः किलासौ यत् किञ्चित् कर्म कुर्यात् तदखिलमुदितं निश्चितं निर्जरैव ॥४॥ अहं कर्ता भोक्तेत्यनवरतमिहाज्ञानमुदभू
1
दियत्कालं शुद्धानुभवनरहस्यं ह्यविदुषाम् । इदानीं सार्वज्ञं वचनममृतादप्यतिरसं चिरं पापायं निचितमपि तन्नो निरगलत् ॥५॥ स्वरूपस्याज्ञानाद् भवति किल कर्तेष पुरुषो ह्यकर्तृत्वं तस्यावगम इह सिद्धं स्वरसतः 1 अतो राग-द्वेषावुदयजनितावित्यनुकलं तटस्थः सन् पश्यन् कथमिव भवत्येष कृतिमान् ? ॥६॥ यदाऽविद्याजन्यं दृढतममभूदन्धतमसं
तदा राग-द्वेषादिषु समभवत् स्वात्मधिषणा ।
For Personal & Private Use Only
www.jainelibrary.org