________________
द्वात्रिंशिका ]
Jain Education International
६
अध्यात्मबिन्दुः
भेदविज्ञानमभ्यस्येद् धारावाहितया बुधः ।
येन विक्षिप्य कर्माणि स्वयं शुद्धोऽवतिष्ठते ॥१२॥ स्वस्मिन् स्वधीर्नयेन्मुक्तिं देहेऽहंधी पुनर्भवम् । ततो देहादबुद्धिं प्रच्याव्याऽऽत्मनि योजयेत् ॥ १३॥ पुण्य-पापद्वयं रुद्ध्वा ध्यायेदात्मानमात्मना । बीजाभावे ततो जन्मप्ररोहोऽयं न संभवेत् ॥ १४ ॥ अनादिवन्धनोपाधिसन्निधानप्रधावितान् । रागादीनात्मनः कुर्वन्नात्मा भवति कारकः ॥ १५ ॥ यथाऽऽत्मानं निवध्नाति तन्तुभिः कोशकृत् कृमिः । तथाऽशुद्धायैर्जीव बध्नात्यात्मानमात्मना ॥१६॥ लूताऽऽत्मानं निबध्नाति यथा स्वात्मोत्थतन्तुभिः । शुभाशुभाध्यवसायैरात्मा वध्नंस्तथेष्यताम् ॥१७॥ ईश्वरस्य न कर्तुत्वमशरीरत्वाद् दिगादिवत् । ततस्तत्प्रेरितो हन्त ! कथमेव विचेष्टते ? ॥१८॥ अनाभोगेन वीर्येण कर्ता देहादिकर्मणाम् । भुक्ताहारस्य मांसासृग्रसादिपरिणामवत् ॥ १९॥ प्रत्येकं कर्तृतायां स्यान्न चैवं गौरवं किल । प्रामाणिकं यत् तद् दुष्टं नेति क्रोडीकृतं परैः ||२०|| स्वयं प्रयाति दुर्योनिं कर्मणा विवशीकृतः । अमेध्यसंभृतं कूपमुन्मत्त इव चेतनः ॥ २१ ॥ अन्वय-व्यतिरेकाभ्यां मोक्षहेतुः स्वधीर्भवेत् । तदभावे तपस्तप्तं योगक्षेमकरं न हि ॥ २२ ॥ वेत्ता सर्वस्य भावस्य वेद्यं च परमं हि यः । अनाद्यनन्तो निर्द्वन्द्वो महानन्दो महोदयः ॥ २३॥ विकल्पैरपरामृष्टः स्पृष्टः कर्माशुभिर्न च । परं ज्योतिः परं तत्त्वं तदेवाहं न चापरम् ॥२४॥ अणोरणीयान् महतो महीयानपि यः पुनः । यस्य भासा जगत् सर्वे भात्यलक्ष्यः पुनः स्वयम् ॥ २५॥
For Personal & Private Use Only
४१
www.jainelibrary.org