________________
॥ अध्यात्मबिन्दुः ॥
॥ तृतीया द्वात्रिंशिका ॥ विकल्पजालकल्लोलैलोले किल मनोजले । नात्मा स्फुरति चिद्रूपस्तोयचन्द्र इव स्फुटम् ॥१॥ आत्मानं भावयेन्नित्यं ___भावितैः किमनात्मभिः । प्रपद्य निस्तरङ्गत्वं
येनात्मा मुच्यतेऽचिरात् ॥२॥ परद्रव्योन्मुखं ज्ञानं कुर्वन्नात्मा परो भवेत् । स्वद्रव्योन्मुखतां प्राप्तः स्वतत्त्वं विन्दते क्षणात् ॥३॥ देहे यथाऽऽत्मधीरस्य तथाऽऽत्मन्येव चेद् भवेत् । कालत्रयेऽपि बन्धोऽस्य न भवेदिति मन्महे ॥४॥ न स्वं मम परद्रव्यं नाई स्वामी परस्य च । अपास्येत्यखिलान् भावान् यद्यास्ते बध्यतेऽथ किम् ? ॥५॥ निष्क्रियस्याऽयसोऽयस्कान्तात्
स्यात् सक्रियता यथा । कर्मोपाधेस्तथा जीवो
निष्क्रियः सक्रियो भवेत् ॥६॥ शुद्धो बुद्धश्चिदानन्दो निष्क्रियो निर्मलोऽव्ययः । परमात्मा जिनः सोऽयं सकर्मा जीवनामभाक् ॥७॥ कर्मभ्यः कर्मकार्येभ्यः पृथग्भूतं चिदात्मकम् । आत्मानं भावयेन्नित्यं नित्यानन्दपदप्रदम् ॥८॥ एको वै खल्वहं शुद्धो निर्ममो ज्ञानदृङ्मयः । स्वस्वरूपे निमज्ज्य द्राय रागादीन् क्षपयाम्यमून् ॥९॥ पीत-स्निग्ध-गुरुत्वानां यथा स्वर्णान्न भिन्नता । तथा दृग-ज्ञान-वृत्तानां निश्चयान्नात्मनो भिदा ॥१०॥ व्यवहारेण तु ज्ञानादीनि भिन्नानि चेतनात् । राहोः शिरोवदप्येषोऽभेदे भेदप्रतीतिकृत् ॥११॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org