________________
द्वात्रिंशिका ]
अध्यात्मबिन्दुः वदनुपकारकत्वान्निकटत्वोक्तिः । तथा अध्यात्मं श्रुत्वा विषयव्यासक्तानामर्थलालसानां च केषाञ्चिद् गुरुसङ्गमेऽपि आगमश्रवणस्य दुर्घटत्वात् चतुरङ्गयां' श्रुतेः परमाङ्गत्वेन वर्णनाच्च श्रुत्वेत्युक्तम् । अध्यात्मग्रहणमितरशास्त्रेभ्योऽस्य मुख्यत्वख्यापनार्थम् । 'पक्षि-पिपीलिकागति'न्यायेनैतस्य झटिति मोक्षसमर्पकत्वात् 'अध्यात्मविद्या विद्यानाम्' [भगवद्गीता, १०. ३२] इति तीर्थान्तरीयैरपि स्वीकाराच्च । अथ ततः अध्यात्मतः । तत्त्वामृतं प्रपीय केवलश्रवणस्य साध्यसिद्ध्यनङ्गत्वात् प्रपाणमुक्तम् । प्रपाणं नाम श्रद्धापूर्विका तदुक्तार्थप्रतीतिः । एवं सति यत् पुनः क्षेत्रज्ञः आत्मा, वद्धस्पृहः सन् अनादिमोहवासनाजनिततृष्णान्तकत्वेन बद्धनिबिडानुरागः विषयग्रामेषु शब्दादिष्विष्टविषयसङ्घातेषु मोमुहीति अतिशयवदात्मोत्थानाकुलस्वभावानन्दामृतमनश्नुवानोऽनास्वादितपूर्वेष्विव अदृष्टचरेष्विव अलब्धपूर्वेष्विव अत्यन्ताकुलत्वजनकेषु स्वभावप्रतिघातेषु पञ्चाक्षात्मकवपुःपिशाचपीडामनधिसहमानो व्याधिसात्म्यतां प्रपन्नेषु सुखाभासोत्पत्तिभूमिभूतेषु अतिशयेन मुग्धो भवति, तन्नूनं त्रिजगज्जये धृतिमतः उत्साहवतो मोहस्य विस्फजितं स्व-पराविवेकहेतोरलध्यशासनस्य मोहस्यैतच्चेष्टितम् – यद् विवेकिनोऽपि मुह्यन्तीति भावः । अत्र च ब्रह्मदत्तचक्रथुपाख्यानं बोध्यम् । नन्वात्मनः क्रियावत्त्वसिद्धौ हि बन्धः सिद्धयति । निष्क्रियत्वे मुक्तस्येव बन्धानुपपत्तेः । क्रिया च परिस्पन्दात्मिका । तस्याश्च- .
"जाव णं एस जीवे चलइ खुभइ घट्टइ फंदइ तं तं भावं परिणमइ ताव णं एस जीवे छविहबंधए वा सत्तविहबंधए वा अविबंधए वा एगविहबंधए वा नो चेव णं अबंधए ।”
इत्यादिना परमागमेन बन्धहेतुत्वाभिधानात् । सा च स्वतोऽसम्भवन्ती कारणान्तरमाक्षिपति । तच्चान्यदसम्भवेत् कमैवेति तत्कर्तृकां क्रियामाह
धत्तै(त्तेऽ)म्भोधिर्जवनपवनाऽऽच्छोटनोन्मू दुग्रो
___ लोलश्रेणीचटुलितवपुर्व्याकुलत्वं यथाऽयम् । निष्कम्पोऽपि स्वरसवशतः कर्मकम्पाकसङ्गं
___ तद्वत् क्षुभ्यत्ययमपि परः पूरुषः संप्रपद्य ॥३॥ व्याख्या- यथाऽयम् अम्भोधिः समुद्रः जवनो वेगवान् यः पवनः तस्य आच्छोटनम् अभिघातः सङ्घट्ट इति यावत् तेन उन्मूर्च्छन्त्यः प्रवर्धमाना
१“चत्तारि परमंगाणि" इत्यादिना उत्तराध्ययनस्य चतुर्थाध्ययने । २ अक्षाणि इन्द्रियाणि । ३ द्र० प्रज्ञापना० सू० २२.२८६ । भगवती० ३.३.१५३ । ४ असंभवत् इति वर्तमानकृदन्तरूपम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org