________________
Jain Education International
हर्षवर्धनोपाध्यायनिबद्धः
[ प्रथमा
अयं भावः - अनादौ संसारे आसंसारात् सकलस्यापि प्राणिवर्गस्यानवरतमनन्तैर्द्रव्यादिपेञ्चपरावर्तैश्चक्रवद् श्रीम्यमाणस्य महता मोहान्धकारेण मुद्रितविवेकलोचनपुटस्य विषयतर्षोत्कर्षविवशीकृतस्याप्रवितर्क्यायतौ दुःखोदर्कदृष्टनष्टान् स्वप्नोपमान् विषयान् उपरुन्धानस्यानन्तकृत्वो नानायोनिषूत्पत्तिविपत्तिक्लेशैरभिद्रुतस्य परभावेष्वेवाश्रान्तविश्रान्तदृष्टेः स्वतत्त्वविमुखस्य सिकतासरस्वति पतिता वज्रकणिकेव दुर्लभा मनुष्यत्वावाप्तिः । कथञ्चित् कर्मलाघवात् तदवाप्तावपि जनुषान्धस्य दृगवाप्तिरिव दुर्लभा विवेकख्यातिः, तल्लाभ एव संसारस्य निस्तीर्यमाणत्वात्, तदधिगमोऽपि केषाञ्चित् पुण्यशालीनां भरतादीनां चणकमुष्टिक्रीतचिन्तारत्नगृह कोणवर्तिवणिजवदयत्नसाध्य एवेति भरतोपाख्यानेन तस्य माहात्म्यमुपनिबद्धम् । भरतोपाख्यानं च प्रसिद्धमेवेति न लिखितमिति ॥ १॥
वाssर्यत्वमथ प्रपद्य च गुरोर्नैकटयमेनःक्षया
२
छ्रुत्वाऽध्यात्ममथ प्रपीय च ततस्तत्त्वामृतं यत् पुनः । क्षेत्रज्ञः किल मोमुहीति विषयग्रामेषु वद्धस्पृह
स्तन्नूनं त्रिजगज्जये धृतिमतो मोहस्य विस्फूर्जितम् ||२|| व्याख्या—आर्यत्वं प्रज्ञापनादौ बहुधोक्तमपि इह देश-कुलरूपमेव ग्राह्यम्, उभयरूपस्यापि धर्मोपलब्ध्यङ्गत्वात् । तद् लब्ध्वा । आर्यत्वमन्तरेण गुरूपसर्पणधर्मश्रवणं प्रति आभिमुख्याभावाद् अनार्य - कुलदेशोत्पन्नानाम् आर्द्रकुमारप्रभृतीनां केषाञ्चिद्धर्मानुरागं प्रति आभिमुख्यं तत् कादाचित्कमिति न व्यभिचारः । अथैनःक्षयाद् इति निचितनिकाचितकर्मणां हि पापात्मनां जमदग्निसुतमुख्यानामिव गुरुसङ्गमाभावात् पुण्योदयलभ्यतोक्ता । गुरोर्नैकटचं प्रपद्य इति महामिध्यादृशामपि केकयपतिप्रभृतीनां गुर्वनुशिष्टिसद्भाव एव सम्यक्त्वमूलस्वर्गावाप्तिश्रवणात् । तदुक्तम्
नरयगइगमणपडिहत्थएण तह पसिणा रणा ।
अमरविमाणं पत्तं तं आयरियप्पहावेणं ॥ [ उपदेशमाला, १०३]
इति निसँर्गाधिगमयोः कारणत्वोक्तावपि बुद्धबोधितानामेव नैकेषां दर्शनाद् गुरुग्रहणम् । हिमानीदूनस्य [ शीतपराभूतस्य ] नरस्य दूरस्थेन्धनसन्धुक्षिताशुशुक्षणि
१ द्रव्य-क्षेत्र-काल-भव-भावाः इति पञ्चपरावर्ताः । २ ० रा० ला । ३ पण्णवणाप्रज्ञापनासूत्रे प्रथमपदे सू०९९-सू०१३८ पृ० ३६-४४- महावीर जैन विद्यालय प्रकाशन । ४ केकयपतिप्रदेशिनृपकथानकं रायपसेणियसूत्रे समागच्छति । ५ ' तद् निसर्गाद् वा' तत्त्वार्थसूत्र १.३ ॥
अधिगमाद्
For Personal & Private Use Only
www.jainelibrary.org