________________
.४
हर्षवर्धनोपाध्याय निबद्धः
[ प्रथमा
उग्रा अभ्रंषा या उल्लोलश्रेण्यः कल्लोलपङ्क्तयस्ताभि: चटुलितं तरलीकृतं वपुः शरीरं यस्य तादृशः सन् यथा व्याकुलत्वं धत्ते तद्वत् स्वरसवशतः स्वभावतो [[निष्कम्पोsपिं] निष्क्रियोऽप्ययं पूरुषः प्रत्यगात्मा कर्मैव कम्पार्कः पवनः तस्य सङ्गं प्रपद्य क्षुभ्यति क्रियावान् भवति ।
Jain Education International
अयं भावः -- जीवः स्वयं यद्यपरिणाम्येव स्यात् तदा दृश्यमानत्रस-स्थावरत्वादिपर्यायवैचित्र्याभावात् संसारस्यैवाभावः स्यात् । निष्परिणामत्वे गगनकुसुमवदवस्तुत्वापत्तेश्च । 'वस्तु च न विक्रियते च' इति गाढशपथप्रत्याय्यत्वात् दृश्यमानगोरसादिपरिणामविरोधाच्च । एकान्तनित्यत्वे कृतनाशाकृताभ्यागमादिदोषप्रसङ्गात् पुण्य-पाप-बन्ध-मोक्षाभावश्च प्रसज्येत । अथ यदि कर्मसंसर्गात् तथा परिणमति तत् किं स्वयमपरिणममानः परिणममानो वा : न तावदपरिणममानः परेण परिणमयितुं पार्येत । “न हि स्वतोऽसती शक्तिः कर्तुमन्येन पार्यते " [ ]। परिणममानस्तु न परं परिणमयितारमपक्षते । न हि वस्तुशक्तयः परमपेक्षन्ते । ततो जीवः स्वयं परिणामस्वभावः स्वीकर्तव्यः । एवं स्वयं सिद्धपरिणामस्वभावो जीवः कर्मणः समवधानात् पारावार इव पवमानसंसर्गात् क्रियावान् भवतीति भावः ||३||
अथैकमेव जीवद्रव्यं परिणामस्वभावत्वात् तिर्यगादिनानावस्थान्तरभाग् भवतीत्यभिधीयते -
कुम्भोदञ्चनवर्द्धमानकरकस्थाल्याद्यवस्थान्तरा
कोऽपि ध्रुवमम्बुयोगवशतो मृद्द्रव्यपिण्डोऽश्नुते । तद्वत् कर्मजलीययोगमुपलभ्यात्माऽपि तिर्यग्नरामर्त्यप्रेत पुरोगजातिनिकरत्वेन स्वयं जायते ||४|| व्याख्या -- एकोऽपि मृद्रव्यपिण्डः अम्बुयोगवशतः पानीयसम्बन्धात् कुम्भश्च घटः, उदच्यते जलमनेनेति उदञ्चनं च पिधानम्, वर्द्धमानश्च शरावः, करकः चलुः, स्थाली च उखा तदादीन्यवस्थान्तराणि पर्यायभेदाद् अश्नुते प्राप्नोति तद्वद् आत्माऽपि कर्मजलस्यायं कर्मजलीयः स चासौ योगश्च सम्बन्धः न्तमुपलभ्य तिर्यङ्नरामर्त्यप्रेतपुरोगजातिनिकरत्वेन स्वयं जायते संपद्यते । भावार्थस्त्वयम् - परिणामस्वभावो जीवः कर्मसंसर्गात् क्रियावान् भवतीति प्राक् प्रतिपादितम् । परिणामश्च तद्भावलक्षणः, 'तद्भावः परिणामः ' [ तत्त्वार्थसूत्र ५.४१ ] इत्युक्तेः ।
I
१ कम्पनशीलः कम्पाकः ।
-
For Personal & Private Use Only
www.jainelibrary.org