________________
४१२
पउमचरियं तं गेण्हिऊण सीया, हरिसवसुब्भिनदेहरोमञ्चा । हणुवस्स उत्तरिज्जं, परितुट्ठा सरयणं देइ ॥१२॥ अहियं पसन्नवयणं, सीयं सुणिऊण आगया सिग्धं । मन्दोयरी सहीहिं, परिकिण्णा तं वरुज्जाणं ॥१३॥ तो भणइ अग्गमहिसी, अम्ह कओऽणुग्गहो तुमे परमो । बाले ! भयसु दहमुहं, विमुक्कसोगा सुइरकालं ॥१४॥ कुविया जंपइ सीया, खेयरि ! दइयस्स आगया वत्ता । संपइ परितुट्ठमणा, तेणं चिय पुलइयङ्गी हं ॥१५॥ सुणिऊण वयणमेयं, मयधूया विम्हयं परं पत्ता । एत्तो विमुक्कसङ्का, परिपुच्छइ मारुइं सीया ॥१६॥ सो एव भणियमेत्तो, हणुवो वरकडय-कुण्डलाहरणो । साहेइ कुलं निययं, पियरं जणणिं च नामं च ॥१७॥ पवणंजयस्स पुत्तो, उयरे च्चिय अञ्जणाए संभूओ। सुग्गीवस्स य भिच्चो, अहयं हणुओ त्ति नामेणं ॥१८॥
भणइ तओ पवणसुओ, पउमो तुह विरहकायरुव्विग्गो।।
खणमवि न उवेइ धिई, सविभव-सयणा-ऽऽसणे भवणे ॥१९॥ न सुणइ गन्धव्वकहं, न य अन्नं कुणइ चेव उल्लावं । नवरं चिन्तेइ तुमं, मुणि व्व जोगट्ठिओ सिद्धि ॥२०॥ सुणिऊण वयणमेयं, बाहविमुञ्चन्तबिन्दुनयणजुया । सीया सोगवसगया, पुणरवि परिपुच्छए वत्तं ॥२१॥ कत्थ पएसे सुन्दर !, दिट्ठो ते लक्खणेण सह पउमो ! । निरुवहअङ्गोवङ्गो ?, किं व महासोगसन्निहिओ ? ॥२२॥ विज्जाहरेहि किं वा, विवाइए लक्खणे य सोगत्तो । मोत्तूण मज्झ तत्ति, किं दिक्खं चेव वडिवन्नो ? ॥२३॥ अह वा किं मह विरहे, सिढिलीभूयस्स वियलिओ रण्णे।लद्धो भद्द ! तुमे किं, अह अङ्गलिमुद्दओ एसो ? ॥२४॥ तद्गृहीत्वा सीता हर्षवशोद्भिन्नदेहरोमाञ्चा। हनुमत उत्तरियं परितुष्टा स्मरणं ददाति ॥१२॥ अधिकं प्रसन्नवदनां सीतां श्रुत्वाऽऽगता शीघ्रम् । मन्दोदरी सखिभिः परिकीर्णा तं वरोद्यानम् ॥१३॥ तदा भणत्यग्रमहिष्यस्मासु कृतोऽनुग्रहस्त्वया परमः । बाले ! भज दशमुखं विमुक्तशोका सुचिरकालम् ॥१४॥ कुपिता जल्पति सीता खेचरि ! दयितस्यागता वार्ता । संप्रति परितुष्टमना तेनैव पुलकिताङ्ग्यहम् ॥१५॥ श्रुत्वा वचनमेतन्मयदुहिता विस्मयं परं प्राप्ता । इतो विमुक्तशङ्का परिपृच्छति मारुतिं सीता ॥१६॥ स एवं भणितमात्रो हनुमान्वरकटक-कुण्डलाभरणः । कथयति कुलं निजं पितरं जननी च नाम च ॥१७॥ पवनञ्जयस्य पुत्र उदर एवाञ्जनायाः संभूतः । सुग्रीवस्य च भृत्योऽहं हनुमानेति नाम्ना ॥१८॥ भणति ततः पवनसुतः पद्मस्तवविरहकातरोद्विग्नः । क्षणमपि नोपैति धृति सवैभवशयनाऽऽसने भवने ॥१९॥ न श्रुणोति गन्धर्वकथां न चान्यत्करोत्येवोल्लापम् । नवरं चिन्तयति त्वां मुनिरिव योगस्थितः सिद्धिम् ॥२०॥ श्रुत्वा वचनमेतद्वाष्पविमुञ्चद्विन्दुनयनयुता । सीता शोकवशगता पुनरपि परिपृच्छति वार्ताम् ॥२१॥ कुत्र प्रदेशे सुन्दर दृष्टस्त्वया लक्ष्मणेन सह पद्मः । निरुपहताङ्गोपाङ्गः ? किं वा महाशोकसन्निहितः ? ॥२२॥ विद्याधरैः किं वा विपादिते लक्ष्मणे च शोकार्तः । मुक्त्वा मम चिंतां किं दिक्षामेव प्रतिपन्नः ॥२३॥ अथवा किं मम विरहे शिथीलीभूतस्य विगलितोऽरण्ये । लब्धो भद्र ? त्वया किमथाङ्गुलिमुद्रक एषः ॥२४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org