________________
| ८८. सत्तुग्घ-कयंतमुहभवाणुकित्तणपव्वं ||
अह मगहपुराहिवई, पुच्छइ गणनायगं कयपणमो । कज्जेण केण महुरा, विमग्गिया केगइसुएणं ॥१॥ सुरपुरसमाउ इहइं, बहुयाओ अत्थि रायहाणीओ । सत्तुग्घस्स न ताओ, इट्ठाओ जह पुरी महुरा ॥२॥ तो भणइ मुणिवरिन्दो, सेणिय ! सत्तुग्घराथपुत्तस्स । बहुया भवा अतीया, महुराए तेण सा इट्टा ॥३॥ इह संसारसमुद्दे, जीवो कम्माणिलाहओ भरहे । महुरापुरीए जाओ, नामेणं जउणदेवो सो ॥४॥ धम्मरहिओ मओ सो, कोलो गड्डाए वायसो जाओ । अइयासुओ य भमणे, दड्डो महिसो समुप्पन्नो ॥५॥ जलवाहो गवलो पुण, छव्वारा महिसओ समुप्पन्नो। कम्मस्स उवसमेणं, जाओ दारिद्दिओ मणुओ॥६॥ नामेण कुलिसधारो, मुणिवरसेवापरायणो विप्पो । रूवाईसयजुत्तो, विवज्जिओ बालकम्मेहिं ॥७॥ तस्स पुरस्साहिवई, असङ्किओ नाम दूरदेसं सो । संपत्थिओ कयाई, तस्स उललिया महादेवी ॥८॥ वायायणट्ठिया सा,विप्पं दट्ठण कामसरपहया । सद्दाविय चेडीए, चिट्ठइ एक्कासणनिविट्ठा ॥९॥ अह अन्नया निवो सो, सयराहं आगओ निय यभवणं । पेच्छइ देवीए समं, तं चिय एक्कासणनिविटुं ॥१०॥ मायाविणीए तीए, गाढं चिय कन्दियं भवणमझे । संतासं च गओ सो, गहिओ य नरिन्दपुरिसेहिं ॥११॥
|| ८८. शत्रुघ्न-कृतान्तमुखभवानुकीर्तनपर्वम् |
अथ मगधपुराधिपतिः पृच्छति गणनायकं कृतप्रणामः । कार्येण केन मथुरा विमागिता कैकयीसुतेन ॥१॥ सुरपुरसमा इह बहवः सन्ति राजधान्यः । शत्रुघ्नस्य न ता इष्टा यथा पुरी मथुरा ॥२॥ तदा भणति मुनिवरेन्द्रः श्रेणिक ! शत्रुघ्नराजपुत्रस्य । बहवो भवा अतीता मथुरायां तेन सेष्टा ॥३॥ इह संसारसमुद्रे जीव: कर्मानिलाहतो भरते । मथुरापुर्यां जातो नाम्ना यमुनदेवः सः ॥४॥ धर्मरहितो मृतः स कोलो गर्तायां वायसो जातः । अर्जिकासुतश्च भ्रमणे दग्धो महिषः समुत्पन्नः ॥५॥ जलवाहो गवलः पुन षड्वारा महिषः समुत्पन्नः । कर्मण उपशमेन जातो दारिद्रो मनुष्यः ॥६॥ नाम्ना कुलिशधारो मुनिवरसेवापरायणो विप्रः । रुपातिशययुक्तो विवर्जितो बालकर्मभिः ॥७॥ तस्य पुरस्याधिपतिरशङ्कितो नाम दुरदेशं सः । संप्रस्थितः कदाचित्तस्य तु ललितामहादेवी ॥८॥ वातायनस्थिता सा विप्रं दृष्ट्वा कामशरप्रहता । शब्दाय्य चेट्या तिष्ठत्येकासननिविष्टा ॥९॥ अथान्यदा नृपःस शीघ्रमागतो निजकभवम् । पश्यति देव्या समं तमेवेकासननिविष्टम् ॥१०॥ मायाविन्या तया गाढमेव क्रन्दितं भवनमध्ये । संत्रासं च गतः स गृहीतश्च नरेन्द्रपुरुषैः ॥११॥
१. सुपुरिससमागमाओ, व०-प्रत्य० । २. बहवो भ०-प्रत्य० । ३. भमइ । म०-प्रत्य० । ४. भवणे-प्रत्य० । ५. ०राहसमागओ-मु० ।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org