________________
४८. कोडिसिलुद्धरणपव्वं ।
अह तस्स धिइनिमित्तं, कुणन्ति कन्नाउ विविहविणिओगे। नच्चन्ति य गायन्ति य, लीलासु मणोहरं कुहरं ॥१॥ विभवो वि तस्स सयलो, समाणिओ पहाण-भोयणाईओ। न य कुणइ निव्वुइसुहं, कन्ताहिययस्स रामस्स ॥२॥ न य सुणइ गीयसदं, न य पेच्छइ मणहरं पि सो रूवं । सीयाएगग्गमणो, झायइ सिद्धि जहा जोगी ॥३॥ न कुणइ कहं पि अन्नं, मोत्तुं सीयासमागमुल्लावं । पासट्ठिया वि सद्दइ, एहेहि लहु जणयधूए ! ॥४॥ देवी व माणुसी वा, नागवहू जक्खिणी व महिला हैं । इह सयलजीवलोए, सीयासरिसी न पेच्छामि ॥५॥ एयाणि य अन्नाणि य, पलवन्तो बहुविहाणि अमुणिन्तो । भणइ कणिटुं पउमो, सो वि चिरावेइ सुग्गीवो ॥६॥ राहववयणेण गओ, सोमित्ती पविसिऊण सुग्गीवं । भणइ भवणोयरत्थं, किं पम्हटुं तुमं सव्वं ? ॥७॥ महिलासोगसमुद्दे, पडिए परमेसरे तुम एत्थं । कह रमसि विसयसोक्खं, अदीहपेही महापावो ? ॥८॥ अकयग्घ ! खेयराधम !, पावमई ! तत्थ नेमि सिग्धं ते । पउमेण जत्थ नीओ, तुह सरिसो दुट्ठचारित्तो ॥९॥ एव परितज्जयन्तं, सोमित्ती वाणराहिवो नमिउं । भणइ य पम्हटुं मे, एक्कवराहं खमसु मज्झं ॥१०॥ संभारिउं पइण्णं, तस्स सुमित्ती कहेइ संबन्धं । जह जोगी उवयारं, कुणइ च्चिय जक्खदत्तस्स ॥११॥
| ४८. कोटिशिलोद्धरणपर्वम् )
अथ तस्य धृतिनिमित्तं कुर्वन्ति कन्या विविधविनियोगान् । नृत्यन्ति च गायन्ति च लीलाभिर्मनोहरं कुहरम् ॥१॥ विभवोऽपि तस्य सकलः समानीतः स्नानभोजनादिकः । न च करोति निवृतिसुखं कान्ताहृदयस्य रामस्य ॥२॥ न च श्रुणोति गीतशब्दं न च पश्यति मनोहरमपि स रुपम् । सीतैकाग्रमना ध्यायति सिद्धि यथा योगी ॥३॥ न करोति कथमप्यन्यन्मुक्तवा सीतासमागमोल्लापम् । पार्श्वस्थितेऽपि शब्दयत्येहयेहि लघु जनकदुहिते ॥४॥ देवीं वा मानुषीं वा नागवधुं यक्षिणी वा महिलामहम् । इह सकलजीवलोके सीतासदृशीं न पश्यामि ।।५।। एतानि चान्यानि च प्रलपन्बहुविधान्यजानन् । भणति कनिष्ठं पद्मः सोऽपि चिरयति सुग्रीवः ॥६॥ राघववचनेन गतः सौमित्रिः प्रविश्य सुग्रीवम् । भणति भवनोदरस्थं किं प्रमृष्टं त्वया सर्वम् ? ॥७॥ महिलाशोकसमुद्रे पतिते परमेश्वरे त्वमत्र । कथं रमसे विषयसुखमदीर्घप्रेक्षी महापापः ? |८|| अकृतज्ञ ! खेचराधम ! पापगते ! तत्र नयामि शीघ्रं तम् । पद्मन यत्र नीतस्तव सदृशो दुष्टचारित्रः ॥९॥ एवं परितर्जयन्तं सौमित्रिं वानराधिपो नत्वा । भणति च विस्मृतं ममैकापराध क्षमस्व मम ॥१०॥ स्मारित्वा प्रतिज्ञां तस्य सौमित्रिः कथयति संबन्धम् । यथा योग्युपचारं करोत्येव यक्षदत्तस्य ॥११॥
१. सोमित्ति-प्रत्य०।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org