________________
८६. महुसुंदरवहपव्वं
२
अह राहवेण भणिओ, सत्तुग्घो जं तुमं हिययइट्टं । इह मेइणीए नयरं, जं मग्गसि तं पणामेमि ॥१॥ एयं साएयपुरिं, गेण्हसु अहवा वि पोयणं नयरं । तह पोण्डवद्धणं पि य, अन्नं च जहिच्छियं देसं ॥२॥ भइ त सत्तुग्घो, महुरं मे देहि देव हियइटुं । पडिभणइ राहवो तं, किं न सुओ तत्थ महुराया ! ॥३॥ सो रावणस्स वच्छ्य !, जामाऊ सुरवरिन्दसमविभवो । चमरेण जस्स दिन्नं, सूलं पलयक्कसमतेयं ॥४॥ मारेऊण सहस्सं, पुणरवि सूलं करं समल्लियइ । जस्स जयत्थं च महं, न एइ रतिंदियं निद्दा ॥५॥ जाणतो आपणासिओ जेण निययतेएणं । उजोइयं च भवणं, किरणसहस्सेण रविणं व ॥६॥ जो खेयरेसु वि णवी, साहिज्जइ तिव्वबलसमिद्धेसु । सो कह सत्तुग्ध ! तुमे, जिप्पइ दिव्वत्थकयपाणी ॥७॥ पमं भणइ कुमारो, किं वा बहुएहि भासियव्वेहिं । महुरं देहि महायस !, तमहं जिणिऊण गेण्हामि ॥८ ॥ जतं महुरारायं, न जिणामि खणन्तरेण संगामे । तो तहरहस्स नामं, पियरस्स फुडं न गेण्हामि ॥९॥ एवं पभासमाणं, सत्तुग्धं राहवो करे घेत्तुं । जंपइ कुमार ! एक्वं, संपइ मे दक्खिणं देहि ॥१०॥ भइ त सत्तुग्घ, महुणा सह रणमुहं पमोत्तूणं । अन्नं जं भणसि पहू !, करेमि तं पायपडिओ हं ॥ ११ ॥
८६. मधुसुदनवधपर्वम्
I
अथ राघवेन भणितः शत्रुघ्नो यत्तव हृदयेष्टम् । इह मेदिन्यां नगरं यन्मार्गयषि तदर्पयामि ॥१॥ एवं साकेतपुरिं गृहाणाथवापि पोतननगरम् । तथा पुण्ड्रवर्धनमपि चान्यं च यथेच्छितं देशम् ॥२॥ भणति ततः शत्रुघ्नो मथुरां मे देहि देव हृदयेष्टाम् । प्रतिभणति राघवस्तं किं न श्रुतस्तत्र मधुराजा ? ॥३॥ स रावणस्य वत्स ! जामातृ सुरवरेन्द्रसमविभवः । चमरेण यस्मै दत्तं शूलं प्रलयार्कसमतेजसम् ॥४॥ मारयित्वा सहस्रं पुनरपि शूलं करं समालीनाति । यस्य जयार्थं च मम नैति रात्रिंदिवा निंद्रा ॥५॥ जातेन तमस्तदा प्रणाशितो येन निजतेजसा । उद्योतितं च भवनं किरणसहस्रेण रविणैव ॥६॥ यः खेचरैरपि नापि साध्यते तीव्रबलसमृद्धैः । स कथं शत्रुघ्न ! त्वया जीयते दिव्यास्त्रकृतपाणिः ||७|| पद्मं भणति कुमारः किं वा बहुभि र्भाषितव्यैः । मथुरां देहि महायशः ! तमहं जित्वा गृह्णामि ॥८॥ यदि तन्मथुराराज्यं न जयामि क्षणान्तरेण संग्रामे । तदा दशरथस्य नाम पितुः स्फुटं न गृह्णामि ॥९॥ एवं प्रभाषमाणं शत्रुघ्नं राघवः करे गृहीत्वा । जल्पति कुमार ! एकां सम्प्रति मे दक्षिणां देहि ॥ १० ॥ भणति ततः शत्रुघ्नो मधुना सह रणमुखं प्रमुच्य । अन्यद्यद्भणसि प्रभो ! करोमि तत्पादपतितोऽहम् ॥११॥
१. तुमे - प्रत्य० । २. भुवणं प्रत्य० । ३. दसर० - प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org