________________
। ४७. सुग्गीवक्खाणपव्व
एत्तो किक्किन्धवई, कन्ताविरहम्मि दुक्खिओ सन्तो । पत्तो परिब्भमन्तो, तं चेव रणं जहिं वत्तं ॥१॥ पेच्छइ तुरय-गइन्दे, विवाइए रहवरे य परिभग्गे । सुहडे विमुक्कजीए, अवरे सत्थाहयसरीरे ॥२॥ परिपुच्छिओ य साहइ, सुग्गीवनराहिवस्स तत्थेगो । सीयाहरणम्मि इमे, निहया खरदूसण-जडागी ॥३॥ चिन्तेइ वाणरवई, निहओ खरदूसणो रणे जेणं । वच्चामि तस्स सरणं, सो वि हु सन्तीकरो होउ ॥४॥ तुल्लावत्थाण जए, होइ सिणेहो नराण निययं पि । कारणवसेण सो मे, काही पक्खं न संदेहो ॥५॥ नाऊण वाणरवई, ठाणं पउमस्स निययबलसहिओ । पडिहारसमक्खाओ, पायालपुरं अह पविठ्ठो ॥६॥ संभासिएक्कमेक्का, उवविठ्ठा आसणेसु रइएसु । पुच्छन्ति देहकुसलं, सुग्गीवं राम-सोमित्ती ॥७॥ एत्थन्तरे पवुत्तो, मन्ती जम्बूनओ निसामेहि । कत्तो सरीरकुसलं, इमस्स अम्हं नरेन्दस्स ? ॥८॥ आइच्चरयस्स सुया, सहोयरा नाम वालि-सुग्गीवा । किक्किन्धिपुराहिवई, वाणरकेऊ महासत्ता ॥९॥ वाली विक्खायजसो, सुग्गीवं ठाविऊण रज्जम्मि । अहिमाणेण विउद्धो, पव्वज्जमुवागओ धीरो ॥१०॥ सुग्गीवो वि य रज्जं, कुणइ सुताराए संजुओ निययं । किक्किन्धिमहानयरे, गयं पि कालं अयाणन्तो ॥१॥
। ४७. सुग्रीवाख्यानपर्वम् । इतः किष्किन्धिपतिः कान्ताविरहे दुःखितस्सन् । प्राप्तः परिभ्रमंस्तदेवारण्यं यत्र वृत्तम् ॥१॥ पश्यति तुरग-गजेन्द्रान्व्यापादितान्रथवरांश्च परिभग्नान् । सुभटान्विमुक्तजीवानपरान्शस्त्राहतशरीरान् ॥२॥ परिपृष्टश्च कथयति सुग्रीवनराधिपस्य तत्रैकः । सीताहरण इमो निहतौ खरदूषण-जटाकिनौ ॥३॥ चिन्तयति वानरपति निहतः खरदूषणो रणे येन । गच्छामि तस्य शरणं सोऽपि खलु शान्तिकरो भवतु ॥४॥ तुल्यावस्थानां जगति भवति स्नेहो नराणां नित्यमपि । कारणवशेन स मे करिष्यति पक्षं न संदेहः ॥५॥ ज्ञात्वा वानरपतिः स्थानं पद्मस्य निजबलसहितः । प्रतिहारसमाख्यातः पातालपुरमथ प्रविष्टः ॥६॥ संभाषितैकैकावुपविष्टावासनेषु रचितेषु । पृच्छतो देहकुशलं सुग्रीवं रामसौमित्री ॥७॥ अत्रान्तरे प्रोक्तो मन्त्री जाम्बुनदो निशामय । कुतः शरीरकुशलमेतस्यास्माकं नरेन्द्रस्य ? ॥८॥ आदित्यरजसः सुतौ सहोदरौ नाम बाली-सुग्रिवौ । किष्किन्धिपुराधिपती वानरकेतू महासत्त्वौ ॥९॥ वाली विख्यातयशाः सुग्रीवं स्थापयित्वा राज्ये । अभिमानेन विबुद्धः प्रव्रज्यामुपागतो धीरः ॥१०॥ सुग्रीवोऽपि च राज्यं करोति सुतारायाः संयुक्तो नित्यम् । किष्किन्धिमहानगरे गतमपि कालमजानन् ॥११॥
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org