________________
४९०
पउमचरियं अह सो विलक्खहसियं, काऊण य भणइ अत्तणो कन्तं । तं मज्झ हिययइट्ठा, अहियं अन्नाण महिलाणं ॥२६॥ लद्धपसायाए तओ, भणिओ मन्दोयरीए दहवयणो। किं दिणयरस्स दीवो, दिज्जइ वि हु मग्गणवाए ? ॥२७॥ जाणन्तो वि नयविही, कह वि पमायं गओ विहिवसेणं । तह वि य पबोहणीओ, हवइ नरो अन्नपुरिसेणं ॥२८॥ आसि पुरा मुणिवसहो, विण्हू वेउव्वलद्धिसंपन्नो । सिद्धन्त-गीइयासु य किं न पबोहं तया नीओ ? ॥२९॥ जइ पयणुओ वि कीरइ, मज्झ पसाओ इमं भणन्तीए । तो मुञ्चसु नाह ! तुम, सीया रामस्स हियइट्ठा ॥३०॥ तुह अणुमएण सीया, नेऊणं राहवं पसाएमि ।आणेमि भाणुकण्णं, पुत्ता य अलं रणमुहेणं ॥३१॥ सो एव भणियमेत्तो, जंपइ लङ्काहिवो परमरुट्ठो । लहु गच्छ गच्छ पावे !, जत्थ मुहं ते न पेच्छामि ॥३२॥ एव भणिये पवुत्ता, सुणसु पहू ! बुहजणेण जं सिटुं। हलहर-चक्कहराणं, जम्मं पडिवासुदेवाणं ॥३३॥ आसि तिविठ्ठ, दुविठ्ठ, सयंभु पुरिसोत्तमो पुरिससीहो । पुरसवरपुण्डरीओ, दत्तो वि हु केसवा एए ॥३४॥ अयलो विजय सुभद्दो य सुप्पहो तह सुदरिसणो चेव । आणन्द नन्दणो वि य, इमे वि हलिणो वइक्वन्ता ॥३५॥ अह भारहम्मि वासे, एए बल-केसवा वइक्कन्ता । संपइ वट्टन्ति इमे, राहव-नारायणा लोए ॥३६॥ एएहि तारगाई, पडिसत्तू घाइया तिखण्डवई । संपइ सामि विणासं, तुहमवि गन्तुं समुच्छहसि ॥३७॥ भोत्तूण कामभोए, पुरिसा जे संजमं समणुपत्ता । ते नवरि वन्दणिज्जा, हवन्ति देवा-ऽसुराणं पि ॥३८॥
अथ स विलक्षहसितं कृत्वा च भणत्यात्मनः कान्ताम् । त्वं मम हृदयेष्टाऽधिकमन्यासां महिलानाम् ॥२६।। लब्धप्रसादया ततो भणितो मन्दोदर्या दशवदनः । किं दिनकरस्य दीपो दीयतेऽपि हु मार्गणार्थे ? ॥२७|| जानन्नपि नयविधि कथमपि प्रमादं गतो विधिवशेन । तथापि च प्रबोधनीयो भवति नरोऽन्यपुरुषेण ॥२८॥ आसीत्पुरा मुनिवृषभो विष्णु वैंक्रियलब्धिसंपन्नः । सिद्धान्त-गीतीकाभिश्च किं न प्रबोधं तदा नीतः ? ॥२९॥ यदि प्रतनुकोऽपि क्रीयते मम प्रसाद इदं भणन्त्याः । तदा मुञ्च नाथ ! त्वं सीतां रामस्य हृदयेष्टाम् ॥३०॥ तवानुमत्या सीतां नीत्वा राघवं प्रसादयामि । आनयामि भानुकर्ण पुत्रांश्चालं रणमुखेन ॥३१॥ स एवं भणितमात्रो जल्पति लकाधिपः परमरुष्टः । लघु गच्छ गच्छ पापे ! यत्र मुखं तव न पश्यामि ॥३२॥ एवं भणिते प्रोक्ता श्रुणु प्रभो ! बुधजनेन यच्छिष्टम् । हलधर-चक्रधराणां जन्म प्रतिवासुदेवानाम् ॥३३॥ आसीत्रिपृष्टो द्विपृष्टः स्वयंभूः पुरुषोत्तमः पुरुषसिंहः । पुरुषवरपुण्डरिको दत्तोऽपि हु केशवा एते ॥३४॥ अचलो विजयः सुभद्रश्च सुप्रभस्तथा सुदर्शन एव । आनन्दो नन्दनोऽपि चेमेऽपि हलिनो व्यतिक्रान्ताः ॥३५।। अथ भारत वर्षे एते बल-केशवा व्यतिक्रान्ताः । संप्रति वर्तेत इमौ राघव-नारायणौ लोके ॥३६॥ एतैस्तारकादयः प्रतिशत्रवः घातितास्त्रिखण्डपतयः । संप्रति स्वामिन् ! विनाशं त्वमपि गन्तुं समुत्सहसे ॥३७।। भुक्त्वा कामभोगान्पुरुषा ये संयम समनुप्राप्ताः । ते नवरि वन्दनीया भवन्ति देवाऽसुराणामपि ॥३८॥
१. सीयं रामस्स हियइट्ठ-प्रत्य० । २. सीयं-प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org