________________
४७७
सम्मद्दिट्ठिदेवकित्तणपव्वं-६७/१२-३९ एवं तु नायरजणे, भयविहलविसंतुले मओ राया । सन्नसिज्झिऊण सबलो, रावणभवणं समल्लीणो ॥२६॥ जुझं समुव्वहन्तो, तेहि समं रावणस्स महिलाए । मन्दोयरीए रुद्धो, जिणवरसमयं सरन्तीए ॥२७॥ एयन्तरम्मि दर्दू, नयरजणं भयसमाउलं देवा । सन्तीहराहिवासी, वच्छल्लं उज्जया काउं ॥२८॥ सन्तीहराउ सहसा, उप्पइया नहयलं महाघोरा । दाढाकरालवयणा, निदाहरविसन्निहा कूरा ॥२९॥ आसा हवन्ति हत्थी, सीहा वग्घा य दारुणा सप्पा । मेहा य अग्गिपवणा, होन्ति पुणो पव्वयसरिच्छा ॥३०॥ अह ते घारोयारे, देवे दट्ठण वाणराणीयं । भग्गं भउडुयमणं, संपेल्लोपेल्लं कुणमाणं ॥३१॥ विद्धत्थं पवयबलं, सन्तीहरवासिएहि देवेहिं । नाऊण सेसचेइय-भवणनिवासी सुरा रुट्ठा ॥३२॥ देवाण य देवाण य, आवडियं दारुणं महाजुझं । विच्छूढघायपउरं, अन्नोन्नाहव्वणारावं ॥३३॥ सन्तीहरसुरसेन्नं, दूरं, ओसारियं तु देवेहिं । दट्टण वाणरभडा, पुणरवि य ठिया नयरिहुत्ता ॥३४॥ नाऊण पुण्णभद्दो, रुट्ठो तो भणइ माणिभई सो । पेच्छसु किं व विमुक्का, वाणरकेऊ महापावा ? ॥३५॥ सन्तीहरमल्लीणं, नियमत्थं रावणं विगयसङ्गं । हन्तूण समुज्जुत्ता, मिच्छादिट्ठी महाघोरा ॥३६॥ तो भणइ माणिभद्दो, नियमत्थं रावणं जिणायतणे ।खोभेऊण न तीरइ, जइ वि सुरिन्दो सयं चेव ॥३७॥ भणिऊण एवमेयं, रुट्ठा जक्खाहिवा तहिं गन्तुं । तह जुज्झिउं पवत्ता, जेण सुरा लज्जिया नट्ठा ॥३८॥ अह ते जक्खाहिवई, पत्थरपहरेसु वाणराणीयं । गन्तूण उवलहन्ते, गयणत्थं राहववं ताहे ॥३९॥
एवं तु नागरजने भयविह्वलविसंस्थूले मयो राजा । सन्नह्य सबलो रावणभवनं समालीनः ॥२६॥ युद्धं समुद्वहंस्तैः समं रावणस्य महिलया । मन्दोदर्या रुद्धो जिनवरसमकं सरन्त्या ॥२७॥ एतदन्तरे दृष्ट्वा नगरजनं भयसमाकूलं देवाः । शान्तिगृहाधिवासिनो वात्सल्यमुद्यताः कर्तुम् ॥२८॥ शान्तिगृहात्सहसोत्पतिता नभस्तलं महाघोराः । दंष्ट्राकरालवदना निदाहरविसंनिभाः कूराः ॥२९॥ अश्वा भवन्ति हस्तिः सिंहा व्याघ्राश्च दारुणाः सर्पाः । मेघाश्चाग्निपवना भवन्ति पुनः पर्वतसदृशाः ॥३०॥ अथ तान्घोराकारान्देवान्दृष्ट्वा वानरानीकम् । भग्नं भयोपद्रुतमनसं संपीडोत्पीडं क्रीयमाणम् ॥३१॥ विध्वस्तं पल्वङ्गबलं शान्तिगृहाधिवासिभि वैः । ज्ञात्वा शेषचैत्यभवननिवासिनः सुरा रुष्टाः ॥३२॥ देवानां च देवानां चापतितं दारुणं महायुद्धम् । विक्षिप्तघातप्रचुरमन्योन्याह्वानारावम् ।।३३।। शान्तिगृहसुरसैन्यं दूरमपसारितं तु देवैः । दृष्ट्वा वानरभटाः पुरनपि च स्थिता नगर्यभिमुखाः ॥३४॥ ज्ञात्वा पूर्णभद्रो रुष्टस्तदा भणति मणिभद्रं सः । पश्य किं वा विमुक्ता वानरकेतवो महापापाः ? ॥३५॥ शान्तिगृहमालीनं नियमस्थं रावणं विगतसङ्गम् । हन्तुं समुधुक्ता मिथ्यादृष्टयो महाघोराः ॥३६॥ तदा भणति मणिभद्रो नियमस्थं रावणं जिनायतने । क्षोभयितुं न शक्यर्यते यद्यपि सुरेन्द्रः स्वयमेव ॥३७॥ भणित्वेवमेतद्रुष्टा यक्षाधिपास्तत्र गत्वा । तथा योद्धं प्रवृत्ता येन सुरा लज्जिता नष्टाः ॥३८।। अथ ते यक्षाधिपतयः प्रस्तरप्रहारै निरानीकम् । गत्वोपलभन्ते गगनस्थं राघवं तदा ॥३९॥
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org