________________
|| २६. सीया-भामण्डलुप्पत्तिविहाणं )
भामण्डलपूर्वभवचरितम् - एत्तो जणयस्स तुमं, सेणिय ! निसुणेहि ताव संबन्धं । होऊण एगचित्तो, कहेमि सव्वं जहावत्तं ॥१॥ जणयस्स महादेवी, आसि विदेहि त्ति नाम नामेणं । गुरुभारा पसवन्ती, परिवालइ सुरवरो तइया ॥२॥ तो भणइ मगहराया, केण निमित्तेण सुरवरो गब्भं । रक्खइ साहेहि पहू !, एयं मे कोउयं परमं ॥३॥ तो भणइ गणाहिवई, राया चक्कद्धओ त्ति नामेणं । सो चक्कपुरनिवासी, भज्जा मणसुन्दरी तस्स ॥४॥ तीए गुणाणुरूवा, धूया अइसुन्दरा गुरुगिहम्मि । सा पढइ अक्खराइं, लेहणिहत्था पयत्तेणं ॥५॥ नरवइपुरोहियसुओ, साहामहिलाए कुच्छिसंभूओ । महुपिङ्गलो त्ति नामं, सो वि तहिं गुरुगिहे पढइ ॥६॥ पढमं चिय आलावो, आलावा रई ईए वीसम्भो । वीसम्भाओ पणओ, पणयाओ वड्डए पेम्मं ॥७॥ जाए च्चिय सब्भावे, तं कन्नं पिङ्गलो हरेऊणं । अइदुग्गमं सुदूरे, वियब्भनयरं समणुपत्तो ॥८॥ काऊण तत्थ गेहं, मूढो विन्नाण-नाण-धणरहिओ । तण-दारुएहि जीवइ, विक्कन्तो सो तहिं नयरे ॥९॥ तइया तम्मि पुरवरे, पयाससीहस्स पढममहिलाए । पवरावलीए पुत्तो, अह कुण्डलमण्डिओ नामं ॥१०॥
२६. सीताभामण्डलोत्पत्ति विधानम् -
भामण्डलपूर्वभव चरित्रम् - इतो जनकस्य त्वां श्रेणिक ! निश्रुणु तावत्संबंधम् । भूत्वेकाग्रचित्तः कथयामि सर्वं यथावृत्तम् ॥१॥ जनकस्य महेदेव्यासीद्विदेहीति नाम नाम्ना । गुरुभारा प्रसवन्ती परिपालयति सुरवरस्तदा ॥२॥ तदा भणति मगधराजा केननिमित्तेन सुरवरो गर्भम् । रक्षति कथय प्रभो ! एतन्मे कौतुकं परमम् ॥३॥ तदा भणति गणाधिपती राजा चक्रध्वज इति नाम्ना । स चक्रपुरनिवासी भार्या मनःसुन्दरी तस्य ॥४॥ तस्या गुणानुरुपा दुहिताऽतिसुन्दरा गुरुगृहे । सा पठत्यक्षराणि लेखिनीहस्ता प्रयत्नेन ।।५।। नरपतिपुरोहितसुतः शाखामहिलायाः कुक्षिसंभूतः । मधुपिङ्गल इति नाम सोऽपि तत्र गुरुगृहे पठति ॥६॥ प्रथममेवालाप आलापाद्रती रत्या विश्वासः । विश्वासात्प्रणयः प्रणयाद्ववर्धते प्रेम ॥७॥ जात एव सद्भावे तां कन्यां पिङ्गलो हृत्वा । अतिदुर्गमं सुदूरं विदर्भनगरं समनुप्राप्तः ॥८॥ कृत्वा तत्र गृहं मूढो विज्ञान-ज्ञान-धनरहितः । तृण-दारूभि र्जीवति विक्रीणानः स तत्र नगरे ॥९॥ तदा तस्मिन्पुरवरे प्रकाशसिंहस्य प्रथममहिलायाः । प्रवरावल्याः पुत्रोऽथ कुण्डलमण्डितो नाम ॥१०॥
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org