________________
केगइपरिणयण-वरसंपायणवण्णणं - २४/१-२४
मञ्चेसु य उवविट्ठा, हरिवाहणमाइया नरवरिन्दा । सयलपरिवारसहिया, आहरणविभूसियसरीरा ॥१२॥ सा वि तहिं वरकन्ना, सव्वालंकारसुकयनेवच्छा । मङ्गलसओवगीया, रायसमुद्द समोइण्णा ॥१३॥ पासेसु चामराइं, उवरिं छत्तं समोत्तिओऊलं । पुरओ य महातूरं, वज्जइ घणसरिसनिग्घोसं ॥१४॥ लीलाए संचरन्ती, नियन्ति तं पत्थिवा अणिमिसच्छा । उम्माइया खणेणं, बहवे आयल्लयं पत्ता ॥१५॥ "मयहरयदावि ते, सव्वे वि नराहिवे पलोएडं । बालाए कया माला, सिग्घं कण्ठे दसरहस्स ॥१६॥ आलइयकण्ठमालं, दट्ठूणं दसरहं जणो भणइ । रूवेण अणंसमो, नवरं अणायकुल-वंसो ॥१७॥ केइत्थ नरवरिन्दा, भणन्ति जोगो वरो सुलायण्णो । गहिओ कन्नाए इमो, पुव्वक्कम्माणुजोएणं ॥१८॥ अन्ने भन्ति रुट्ठा, देसियपुरिसस्स अमुणियकुलस्स । एयस्स हरह कन्नं, सिग्घं चिय मा चिरावेह ॥ १९ ॥ अह ते खणेण सव्वे, सन्नद्धे पेच्छिऊण नरवसभे । तो सुहमई नरिन्दो, वयण जामाउयं भणइ ॥२०॥ जाव य सरेहि समरे, धाडेमि इमे अहं नरवरिन्दे । ताव य कन्नाए समं, पविससु नयरं रहारूढो ॥२१॥ जं एव समालत्तो, भणइ तओ 'माम ! किं विसण्णो सि ? । थोवन्तरेण पेच्छसु, भज्जन्ते रणमुहे एए ॥२२॥ एव भणिऊण तो सो, सन्नद्धो रहवरं समारूढो । पग्गहकरावलग्गा, धुरासणे केगई तस्स ॥२३॥ जस्स ससिमण्डलनिभं, दीसइ छत्तं भडाण मज्झम्मि । एयस्स तुरियवेयं, वाहेहि रहं विसालच्छि ! ॥२४॥
मञ्चेषु चोपविष्टा हरिवाहनादयो नरवरेन्द्राः । सकलपरिवारसहिता आभरणविभूषितशरीराः ॥१२॥ साऽपि तत्र वरकन्या सर्वालङ्कारसुकृतनेपथ्या । मङ्गलशतोपगीता राजसमुद्रं समवतीर्णा ॥१३॥ पार्श्वयो श्चामराण्युपरि छत्रं समौक्तिकावचूलम् । पुरतश्च महातूर्यं वाद्यते घनसदृशनिर्घोषम् ॥१४॥ लीलया सञ्चरन्ती पश्यन्ति तां पार्थिवा अनिमेषाक्षाः । उन्मादिताः क्षणेन बहव आकुलतां प्राप्ताः ॥१५॥ महत्तरकदर्शितान् तान् सर्वानपि नराधिपान् प्रलोक्य । बालया कृता माला शीघ्रं कण्ठे दशरथस्य ॥१६॥ आरोपितकण्ठमालं दृष्ट्वा दशरथं जनो भणति । रुपेणानङ्गसमो नवरमज्ञातकुलवंशः ॥१७॥ केचिन्नरवरेन्द्रा भणन्ति योग्यो वरः सुलावण्यः । गृहीतः कन्ययायं पूर्वकर्मानुयोगेन ॥१८॥ अन्ये भणन्ति रुष्टा दैशिकपुरुषस्याजातकुलस्य । एतस्य हरत कन्यां शीघ्रमेव मा चिरायत ॥१९॥ अथ तान्क्षणेन सर्वान्सन्नद्धान्दृष्ट्वा नरवृषभान् । तदा शुभमतिर्नरेन्द्रो वचनं जामातरं भणति ॥२०॥ यावच्च शरैः समरे निस्सारयामीमानहं नरवरेन्द्रान् । तावच्च कन्यया समं प्रविश नगरे रथारुढः ॥२१॥ यदेव समालप्तो भणति ततो माम ! किं विषण्णोऽसि ? । स्तोकान्तरेण पश्य भञ्जतो रणमुखे एतान् ॥२२॥ एवं भणित्वा ततः स सन्नद्धो रथवरं समारूढः । प्रग्रहकरावलग्ना धुरासने कैकेयी तस्य ॥२३॥ यस्य शशिमण्डलनिभं दृश्यते छत्रं भटानां मध्ये । एतस्य त्वरितवेगं वाह्य रथं विशालाक्षि ! ||२४||
१. महत्तरकदर्शितान् । २. सामि ! - प्रत्य० ।
Jain Education International
For Personal & Private Use Only
२४७
www.jainelibrary.org