________________
॥ २२. सुकोसलमुणिमाहप्प-दसरहउप्पत्तिवण्णणं ) अह एत्तो कित्तिधरो, मुणिवसभो मलविलित्तसव्वङ्गो । मज्झण्हदेसयाले, नयरं पविसरइ भिक्खटुं ॥१॥ तं पेच्छिऊण साहुं, जालगवक्खन्तरेण सहदेवी । रुट्ठा पेसेइ नरे, धाडेह इमं पुरवराओ ॥२॥ अन्ने वि लिङ्गिणो जे, ते वि य धाडेह मा चिरावेह । मा धम्मवयणसई, सुणिही पुत्तो महं एसो ॥३॥ एत्थन्तरे य तेहिं, नयराओ धाडिओ मुणिवरिन्दो । अन्ने वि जे पुरत्था, निच्छूढा लिङ्गिणो सव्वे ॥४॥ तं नाऊण मुणिवरं, कित्तिधरं कोसलस्स जा धाई । रुवइ किवालुयहियया, सुमरन्ती सामियगुणोहं ॥५॥ निसुणेऊण रुवन्ती, भणिया य सुकोसलेण केण तुमं । अम्मो परिभूय च्चिय ।, तस्स फुडं निग्गरं काहं ॥६॥ तो भणइ वसन्तलया पुत्तय ! जो सो सिसुं तुमं रज्जे । ठविऊण य पव्वइओ, सो तुज्झ पिया इह पविट्ठो ॥७॥ भिक्खटे विहरन्तो, जणणीए तुज्झ दुद्रुपुरिसेहिं । धाडाविओ य अज्जं, पुत्तय ! तेणं मए रुण्णं ॥८॥ दट्टण य पासण्डे, मा निव्वेओ य होहिइ सुयस्स । तेणं चिय नयराओ, निच्छूढा लिङ्गिणो सव्वे ॥९॥ उज्जाण-काणणाइं, पुक्खरिणी-बाहियालिमाईणि । नयरस्सऽब्भिन्तरओ, तुज्झ कयाई च जणणीए ॥१०॥ अन्ने वि तुज्झ वंसे, पुत्तय ! जे नरवई अइक्वन्ता । ते वि य भोत्तूण महि, पव्वज्जमुवागया सव्वे ॥११॥ एएण कारणेणं, न देइ नयरस्स निग्गमं तुज्झ । मा निसुणिऊण धम्मं, निक्खमिही जायसंवेगो ॥१२॥
[[२२. सुकोशलमुनि माहात्म्य-दशरथोत्पत्तिवर्णनम् ।
अथेतः कीर्तिधरो मुनिवृषभो मलविलिप्तसर्वाङ्गः । मध्याह्नदेशकाले नगरं प्रविशति भिक्षार्थम् ॥१॥ तं दृष्ट्वा साधु जालगवाक्षान्तरेण सहदेवी । रुष्टा प्रेषयति नरान् निस्सारयतेमं पुरवरात् ।।२।। अन्येऽपि लिङ्गिनो ये तानपि च निस्सारयत मा चिरायत । मा धर्मवचनशब्दं श्रुणुयात्पुत्रो ममैषः ॥३॥ अत्रान्तरे च तैर्नगरान्निस्सारितो मुनिवरेन्द्रः । अन्येऽपि ये पुरस्था निष्काषिता लिङ्गिनः सर्वे ॥४॥ तज्ञात्वा मुनिवरं कीर्तिधरं कोशलस्य या धात्री । रोदिति कृपालुहृदया स्मरन्ती स्वामिगुणौघम् ॥५॥ निश्रुत्य रुदन्ती भणिता च सुकोशलेन केन त्वम् । अम्बे ! परिभूता एव ! तस्य स्फुटं निग्रहं करिष्यामि ॥६॥ ततो भणति वसन्तलता पुत्र ! यः स शिशुं त्वां राज्ये । स्थापयित्वा च प्रव्रजितः स तव पितेह प्रविष्टः ॥७॥ भिक्षार्थे विहरञ्जनन्या तव दुष्टपुरुषैः । निस्सारितश्चाद्य पुत्र ! तेन मया रुदितम् ॥८॥ दृष्ट्वा च पाखण्डान्मानिर्वेदश्च भवेत्सुतस्य । तेनैव नगरान्निष्काषिता लिङ्गिनः सर्वे ॥९॥ उद्यान-काननानि-पुष्करिणी-वाह्याल्यादिनि । नगरस्याभ्यन्तरतस्तव कृतानि च जनन्या ॥१०॥ अन्येऽपि तव वंशे पुत्र ! ये नरपतयोऽतिक्रान्ताः । तेऽपि च भुक्त्वा महीं प्रव्रज्यामुपागताः सर्वे ॥११॥ एतेन कारणेन न ददाति नगरस्य निर्गमं तव । मा निश्रुत्य धर्म निष्क्राम्येज्जातसंवेगः ॥१२॥
Jain Education Interational
For Personal & Private Use Only
wwwjainelibrary.org