________________
२२२
पउमचरियं संवेगजणियभावो, दिक्खं जिणदेसियं गहेउं जे । कम्मट्टनिट्ठियट्ठो, नमि-नेमिजिणन्तरे सिद्धो११ ॥१५४॥ वाणारसीए पुट्वि तिलिङ्गसमणस्स पायमूलम्मि । संभूओ पव्वइओ, कुणइ तवं बारसवियप्पं ॥१५५॥ तत्तो समाहिबहुलं, कालं काऊण कमलगुम्मम्मि । जाओ सुरवरवसहो, ललियङ्गय-कुण्डलाभरणो ॥१५६॥ सो तत्थ वरविमाणे, सुरगणियासहगओ महिड्डीओ । भुञ्जइ मणोभिरामं, विसयसुहं उत्तमगुणोहं ॥१५७॥ चइऊण विमाणाओ, बम्भरहनराहिवस्स महिलाए । जाओ य बम्भदत्तो, कम्पिल्ले पुष्फचूलाए ॥१५८॥ भोत्तूण भरहवासं, काऊण य विरइवज्जिओ कालं । सत्तमखिइं पविट्ठो, जिणन्तरे नेमि-पासाणं१२॥१५९॥ एए भरहाहिवई, बारस चक्की मए समक्खाया। सेणिय ! पुण्णविवायं, दावेन्ति जणस्स पच्चक्खं ॥१६०॥ पुण्य-पाप-फलम् - गिरिसिहरसमेसु नरा, भवणेसु वसन्ति जं सया सुहिया । तं धम्मदुमस्स फलं, सव्वं इह पायडं लोए ॥१६१॥ छिड्डसयमण्डिएसुं, घरेसु धण-धन्नविप्पमुक्केसु । जं परिवसन्ति पुरिसा, तं पावदुमस्स हवइ फलं ॥१६२॥ तुरएसु कुञ्जरेसु य, चलचामरमण्डएसु विविहेसु । वच्चन्ति जं नरिन्दा, तं धम्मदुमस्स हवइ फलं ॥१६३॥ तण्हा-छुहाकिलन्ता, दुखं सी-उण्हपरिगयसरीरा । वच्चन्ति य पाएसुं, तं सव्वं पावरुक्खफलं ॥१६४॥ अट्ठारसगुणकलियं, सोवण्णियभायणेसु वरभत्तं । भुञ्जन्ति जं नरिन्दा, तं सव्वं पुण्णरुक्खफलं ॥१६५॥
संवेगजनितभावो दिक्षां जिनदेशितां गृहीत्वा ये । कर्माष्टनिष्ठितार्थो नमि-नेमिजिनान्तरे सिद्धः ॥१५४।। वाराणस्यां पूर्वे त्रिलिङ्गश्रमणस्य पादमूले । संभूतः प्रव्रजितः करोति तपो द्वादशविकल्पम् ॥१५५।। ततः समाधिबहुलं कालं कृत्वा कमलगुल्मे । जातः सुरवरवृषभो ललिताङ्गदकुण्डलाभरणः ॥१५६॥ स तत्र वरविमाने सुरगणिकासहगतो महद्धिकः । भुनक्ति मनोभिरामं विषयसुखमुत्तमगुणौघम् ॥१५७॥ च्युत्वा विमानाद्ब्रह्मरथनराधिपस्य महिलायाः । जातश्च ब्रह्मदत्तः काम्पिल्ये पुष्पचूलायाः ॥१५८॥ भुक्त्वा भरतवर्षं कृत्वा च विरतिवर्जितः कालम् । सप्तमक्षितिं प्रविष्टो जिनान्तरे नेमि-पार्श्वयोः ॥१५९।। एते भरताधिपतयो द्वादशचक्रवत्तिनो मया समाख्याताः । श्रेणिक ! पुण्यविपाकं दर्शयन्ति जनस्य प्रत्यक्षम् ॥१६०॥ पुण्य-पाप-फलम् - गिरिशिखरसमेषु नरा भवनेषु वसन्ति यत्सदा सुखिताः । तद्धर्मद्रुमस्य फलं सर्वमिह प्रकटं लोके ॥१६१।। छिद्रशतमण्डितेषु गृहेषु धन-धान्य विप्रमुक्तेषु । यत्परिवसन्ति पुरुषास्तत्पापद्रुमस्य भवति फलम् ॥१६२।। तुरगेषु कुञ्जरेषु च चलच्चामरमण्डितेषु विविधेषु । गच्छन्ति यन्नरेन्द्रास्तद्धर्मद्रुमस्य भवति फलम् ॥१६३।। तृष्णा-क्षुधाक्लान्ता दुःखं शीतोष्णपरिगतशरीराः । व्रजन्ति च पादेषु तत्सर्वं पापवृक्षफलम् ॥१६४।। अष्टादशगुणकलितं सौवर्णिकभाजेनषु वरभक्तम् । भुञ्जते यन्नरेन्द्रास्तत्सर्वं पुण्यवृक्षफलम् ॥१६५।।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org