________________
पवणंजय - अंजणासुन्दरीसमागमविहाणं - १८ / २३ -४८
पडिसुज्जओ वि एत्तो, आसासेऊण अञ्जणा तुरियं । उप्पइओ गयणयले, पेच्छइ विज्जाहरे सव्वे ॥३६॥ अह ते गवेसमाणा, भूयारण्णं वणं समणुपत्ता । पेच्छन्ति तत्थ हत्थि, पवणंजयसन्तियं मत्तं ॥३७॥ दट्ठूण गयवरं तं, सव्वे विज्जाहरा सुपरितुट्ठा। जंपन्ति एक्मेक्कं, पवणगई एत्थ निक्खुत्तं ॥३८॥ अञ्जणगिरिसमसरिसो, सियदन्तो चडुलचलणगइगमणो । पासेसु परिभमन्तो, रक्खड़ सामी सुभिच्चो व्व ॥३९॥ दट्ठूण पवणवेगं, ओइण्णा खेयरा नहयलाओ । वारेइ अल्लियन्ते, तस्स समीवं गयवरो सो ॥४०॥ काऊण वसे हत्थि, पवणसमीवम्मि खेयरा पत्ता । पेच्छन्ति अचलियङ्ग, मुणि व्व जोगं समारूढं ॥४१॥ आलिङ्गिऊण पुत्तं, पल्हाओ रुयइ बहुविहपलावं । हा वच्छ ! महिलियाए, कएण दुक्खं इमं पत्तो ॥४२॥ परिवज्जियमाहारं, कयमोणं मरणनिच्छिउच्छाहं । नाऊण साहइ फुडं, पडिसूरो अञ्जणापगयं ॥४३॥
कुमार ! निसुण, संझागिरिमत्थए मुणिवरस्स । उप्पन्नं नाणवरं, नामेण अणन्तविरियस्स ॥४४॥ तं वन्दिऊण समणं, आगच्छन्तेण तत्थ रयणीए । पलियङ्कगुहाए मए, रोवन्ती अञ्जणा दिट्ठा ॥४५॥ परिपुच्छिया य तीए, सिद्धं निव्वासकारणं सव्वं । आसासिया मए च्चिय, सयणसिणेहं वहन्तेणं ॥४६॥ तद्दिवसं चिय तीए, जाओ पुत्तो सुरूवलायण्णो । दिव्वविमाणारूढो, निज्जन्तो महियले पडिओ ॥४७॥ ओइण्णो च्चिय सहसा, गयणाओ अञ्जणाए समसहिओ । पेच्छामि बालयं तं, पडियं गिरिकन्दरुद्देसे ॥४८॥
प्रतिसूर्योऽपीत आश्वास्याञ्जनां त्वरितम् । उत्पतितो गगनतले पश्यति विद्याधरान् सर्वान् ॥३६॥ अथ ते गवेषयन्तो भूतारण्यं वनं समनुप्राप्ताः । पश्यन्ति तत्र हस्तिनं पवनञ्जयसत्कं मत्तम् ||३७|| दृष्ट्वा गजवरं तं सर्वे विद्याधराः सुपरितुष्टाः । जल्पन्त्येकैकं पवनगतिरत्र निश्चितम् ॥३८॥ अञ्जनगिरिसमसदृशः श्वेतदन्तश्चटूलचरणगतिगमनः । पार्श्वे परिभ्रमन्रक्षति स्वामिनं सुभृत्य इव ॥३९॥ दृष्ट्वा पवनवेगमवतीर्णाः खेचरा नभस्तलात् । वारयत्युपसर्पस्तस्य समीपं गजवरः सः ॥४०॥ कृत्वा वशे हस्तिनं पवनसमीपे खेचराः प्राप्ताः । पश्यन्त्यचलिताङ्गं मुनिमिव योगं समारुढम् ॥४१॥ आलिङ्ग्य पुत्रं प्रह्लादो रोदिति बहुविधप्रलापम् । हा वत्स! महिलाया कृतेन दुःखमिदं प्राप्तः ॥४२॥ परिवर्जितमाहारं कृतमौनं मरणनिश्चितोत्साहम् । ज्ञात्वा कथयति स्फूटं प्रतिसूर्यो ऽञ्जनावगतम् ॥४३॥ इतः कुमार ! निःश्रुणु संध्यागिरिमस्तके मुनिवरस्य । उत्पन्नं ज्ञानवरं नाम्नानन्तवीर्यस्य ॥४४॥ तं वन्दित्वा श्रमणमागच्छता तत्र रजन्याम् । पर्यंकगुहायां मया रुदन्ती अञ्जना दृष्टा ॥ ४५॥ प्रतिपृच्छिता च तया शिष्टं निर्वासकारणं सर्वम् । आश्वासिता मयैव स्वजनस्नेहं वहता ॥४६॥ तद्दिवसमेव तस्या जातः पुत्रः सुरुपलावण्यः । दिव्यविमानारुढो नयन्महितले पतितः ॥४७॥ अवतीर्ण एव सहसा गगनादञ्जनया समसहितः । पश्यामि बालकं तं पतितं गिरिकन्दरोद्देशे ॥४८॥ १. अञ्जणं प्रत्य० ।
Jain Education International
For Personal & Private Use Only
२०३
www.jainelibrary.org