________________
३४४
पउमचरियं मुञ्चन्ति सिर-कलेवर-जङ्घाई बहुविहाई अङ्गाई । घणविन्दुरुहिरवासं, वासन्ति य तडतडारावं ॥२५॥ केई तिसूलहत्था, अन्ने असि-कणय-तोमरकरग्गा । मुक्कट्टहासभीसण-संखोभियदसदिसायक्का ॥२६॥ गय-वग्घ-सीह-चित्तय-सिवामुहुज्जलियभीसणायारा । अह खोभिउं पवत्ता, भूया समणे समियपावे ॥२७॥ आलोइऊण सीया, अणेयवेयाल-भूयसंघट्ट । नच्चणविहिं पमोत्तुं, भीयारामं समल्लीणा ॥२८॥ भणिया य राधवेणं, चिट्ठसु भद्दे ! मुणीण पामूले । अहयं पुण उवसग्गं, लक्खणसहिओ पणासेमि ॥२९॥ घेत्तूण धणुवराई, दोहि वि अप्फालियाई अइगाढं । सद्देण तेण सेलो, नज्जइ आकम्पिओ सयलो ॥३०॥ अह सो जोइसवासी, देवो अणलप्पभो त्ति नामेणं । अवहिविसएण जाणइ, हलहर-नारायणा एए ॥३१॥ मायाविगुब्वियं तं, उवसग्गं मुणिवराण अवहरिउं । वच्चइ निययविमाणं, गयणं पि सुनिम्मलं जायं ॥३२॥ जणिए य पाडिहेरे, हलहर-नारायणेहि साहूणं । कम्मस्स खयवसेणं, उप्पन्नं केवलन्नाणं ॥३३॥ तत्तो य चउनिकाया, समागया सुरगणा नरगणा य । थोऊण समणसीहे, जहाविहं चेव उवविट्ठा ॥३४॥ काऊण केवलीणं, पूया नमिऊण सव्वभावेणं । सीयाए दो वि पासे, उवविट्ठा राम-सोमित्ती ॥३५॥ तो सुरगणाण मज्झे, पउमो पुच्छि महामुणी एत्तो । अज्ज निसासुवसग्गो, केणकओ भे अपुण्णेणं ? ॥३६॥ अह साहिउं पवत्तो, केवलनाणी परब्भवसमूहं । अत्थि च्चिय विक्खाया, नयरी वि हु पउमिणी नामं ॥३७॥
मुञ्चन्ति शिरः कलेवर-जड्यानि बहुविधान्यङ्गानि । घनबिन्दुरुधिरवर्षा वर्षन्ति च तडतडारावम् ॥२५॥ केऽपि त्रिशूलहस्ता, अन्येऽसि-कनकतोमरकराग्राः । मुक्ताट्टहास्यभीषणसंक्षोभितदशदिक्चक्राः ॥२६।। गज-व्याघ्र-सिंह-चित्रक-शिवामुखोज्वलितभीषणाकाराः । अथ क्षोभयितुं प्रवृत्ता भूताः श्रमणौ समितपापौ ॥२७॥ अवलोक्य सीताऽनेक वैतालभूतसंघट्टम् । नृत्यविधि प्रमुच्य भीता रामं समालीना ॥२८॥ भणिता च राघवेन तिष्ठ भद्रे ! मुनीनां पादमूले । अहं पुनरुपसर्ग लक्ष्मणसहितः प्रणश्यामि ॥२९॥ गृहीत्वा धनुर्वराणि द्वाभ्याम्प्यास्फालितान्यतिगाढम् । शब्देन तेन शैलो ज्ञायत आकम्पितः सकलः ॥३०॥ अथ स ज्योतिषवासी देवोऽनलप्रभ इति नाम्ना । अवधिविषयेन जानाति हलधर-नारायणावेतौ ॥३१॥ मायाविकुवितं तमुपसर्ग मुनिवराणामपहृत्य । गच्छति निजविमानं गगनमपि सुनिर्मलं जातम् ॥३२॥ जनिते च प्रातिहार्ये हलधर-नारायणाभ्यां साधुनाम् । कर्म क्षयवशेनोत्पन्नं केवलज्ञानम् ॥३३॥ ततश्च चतुर्निकायाः समागताः सुरगणा नरगणाश्च । स्तुत्वा श्रमणसिंहान्यथाविधमेवोपविष्टाः ॥३४॥ कृत्वा केवलीनां पूजा नत्वा सर्वभावेण । सीताया द्वावपि पार्श्वे उपविष्टौ रामसौमित्री ॥३५॥ ततः सुरगणानां मध्ये पद्मः पृच्छति महामुनिमितः । अद्य निशायामुपसर्गः केन कृतो भेऽपुण्येन ? ॥३६।। अथ कथयितुं प्रवृत्तः केवलज्ञानी परभवसमूहम् । अस्त्येव विख्याता नगर्यपि खलु पद्मिनी नाम ॥३७||
१. पूर्य-प्रत्य०।
For Personal & Private Use Only
Jain Education Interational
www.jainelibrary.org