________________
जियपउमावक्खाणं -३८/१२-३८
३३९ सोऊण वयणमेयं, पुच्छइ लच्छीहरो तयं पुरिसं । को वि हु देइ पहारं ?, का सत्ती ? का व सा महिला ? ॥२६॥ सो भणइ सत्तुदमणो, राया भज्जा य तस्स कणयाभा। जियपउमा वि य धूया, विसकन्ना सा इहं नयरे ॥२७॥ जो सहइ सत्तिपहरं, इमस्स रायस्स कढिणकरमुक्कं । तस्सेसा जियपउमा, देइ च्चिय किं तुमे न सुयं ? ॥२८॥ सोऊण तं सरोसो, विम्हियहियओ य लक्खणो तुरियं । पविसइ नरिन्दभवणं, तीए कए पवरकन्नाए ॥२९॥ इन्दीवरघणसामं, जियसत्तू पेच्छिऊण सिरिनिलयं । भणइ य उवणेह लहुं, एयस्स वरासणं एत्तो ॥३०॥ भणिओ य नरवईणं, कत्थ तुमं आगओ सि ? किं नामं? । केणेव कारणेणं, भमसि महिं जेण एगागी ? ॥३१॥ भरहस्स अहं दूओ, पत्तो हं एत्थ कारणवसेणं । तुह दुहियमाणभङ्गं, करेमि गव्वं वहन्तीए ॥३२॥ जो मज्झ सत्तिपहरं, सहइ नरो गाढकरयलविमुक्कं । सो नवरि माणभङ्गं, कुणइ य नत्थेत्थ संदेहो ॥३३॥ भणइ तओ लच्छिहरो, एक्काए किं व मज्झ सत्तीए ? । मुञ्चसु पञ्च नराहिव !, सत्तीओ मा चिरावेहि ॥३४॥ वट्टइ जावुल्लाओ, ताव गवक्खन्तरेण जियपउमा । अह पुरिसवेसिणी तं, मोत्तूण निएइ लच्छिहरं ॥३५॥ ऊण अञ्जलिपुडं, कुणइ पणामं पसन्नहियया सा । सन्नाए लक्खणोच्चिय, भणइ भयं मुञ्च पसयच्छि ! ॥३६॥
लच्छीहरेण भणिओ, किं पडिवालेसि अज्ज वि थिरत्तं ? ।
मुञ्चसु अरिदमण ! तुमं, मह सत्ती विउलवच्छयले ॥३७॥ एवभणिओ नरिन्दो, रुट्ठो आबन्धिऊण परिवेढं । जलियाणलसंकासं, उग्गिइ तओ महासत्तिं ॥३८॥ श्रुत्वा वचनमेतत्पृच्छति लक्ष्मीधरस्तं पुरुषम् । कोऽपि खलु ददाति प्रहारं ? का शक्तिः ? का वा सा महिला ? ॥२६॥ स भणति शत्रुदमनो राजा भार्या च तस्य कनकाभा । जितपद्माऽपि दुहिता विषकन्या सेहं नगरे ॥२७॥ यः सहते शक्तिप्रहारमेतस्य राज्ञः कठिनकरमुक्तम् । तस्मा एषा जितपद्मा ददात्येव किं त्वया न श्रुतम् ? ॥२८॥ श्रुत्वा तं सरोषो विस्मितहृदयश्च लक्ष्मणस्त्वरितम् । प्रविशति नरेन्द्रभवनं तस्याः कृते प्रवरकन्यायाः ॥२९॥ इन्दीवरघनश्यामं जितशत्रु दृष्टवा श्रीनिलयम् । भणति चोपानयत लघ्वेतस्य वरासनमितः ॥३०॥ भणितश्च नरपतिना कुतस्त्वमागतोऽसि ? किं नाम ? । केनैव कारणेन भ्रमसि महीं येनैकाकी ? ॥३१॥ भरतस्याहं दूतः प्राप्तोऽहमत्र कारणवशेन । तव दुहितृमानभङ्गं करोमि गर्वं वहन्त्याः ॥३२॥ यो मम शक्तिप्रहारं सहते नरो गाढकरतलविमुक्तम् । स नवरि मानभङ्गं करोति च नास्त्यत्र संदेहः ॥३३॥ भणति ततो लक्ष्मीधर एकया कि वा मम शक्त्या ? । मुञ्च पञ्च नराधिप ! शक्तयो मा चिराय ॥३४॥ वर्तते यावदुल्लापस्तावद्गवाक्षान्तरेण जितपद्मा । अथ पुरुषद्वेषिणी तं मुक्त्वा पश्यति लक्ष्मीधरम् ।।३५।। रचयित्वाऽञ्जलिपूटं करोति प्रणामं प्रसन्नहृदया सा । सञ्जया लक्ष्मण एवं भणति भयं मुञ्च प्रसन्नाक्षि ! ॥३६॥ लक्ष्मीधरेण भणितः किं प्रतिपालयस्यद्यापि स्थिरत्वम् ? । मुञ्चारिदमन ! त्वं मम शक्तिं विपुलवक्षःस्थले ॥३७॥ एवं भणितो नरेन्द्रो रुष्ट आबध्य परिवेष्टम् । ज्वलितानलसंकाशामुद्गीरति ततो महाशक्तिम् ॥३८॥
१. तस्सेयं जियपउम-प्रत्य० ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org