________________
२९०
पउमचरियं चिन्तेइ तो मणेणं, रज्जं दाऊण पउमनाभस्स । तो सव्वसङ्गरहिओ, मुत्तिसुहं चेव पत्थेमो ॥३९॥ मेरु व्व धीरगरुओ, रामो तिसमुद्दमेहलं पुहई । पालेऊण समत्थो, परिकिण्णो बन्धवजणेणं ॥४०॥ हेमन्तवर्णनम् - चिन्तावरस्स एवं, नरेन्दवसभस्स रज्जविमुहस्स । अभिलविओ य सरओ, हेमन्तो चेव संपत्तो ॥४१॥ हेमन्तवायविहवो, लोगो परिफुडियअहर-कर-चरणो । रयरेणुपडलछन्नो, ससी व मन्दच्छविं वहइ ॥४२॥ आकुञ्चियकर-गीवा, पुरिसा सीएण फुडियसव्वङ्गा । सुमरन्ति अग्गिनिवहं, दीणा वि य मन्दपाउरणा ॥४३॥ आवडियदसणवीणा, दारु-तणाजीवया थरथरेन्ता । दारिद्दसमभिभूया, गमेन्ति कालं अकयपुण्णा ॥४४॥ पासायतलत्था वि य, अन्ने पुण गीय-वाइयरवेणं । वरवत्थपाउयङ्गा, कालागरुधूवसुसुयन्धा ॥४५॥ भुञ्जन्ति सया रसियं, आहारं कणयभायणविदिन्नं । कुंकुमकयङ्गरागा अक्खीणधणा सुकयपुण्णा ॥४६॥ कलमहुभासिणीहिं, संगयवरचारुवेसरूवाहिं । तरुणविलयाहि समयं, कीलन्ति चिरं सुकयपुण्णा ॥४७॥ धम्मेण लहइ जीवो, सुर-माणुसविविहभोगसामिद्धि । नरय-तिरिक्खेसु पुणो, पावइ दुक्खं अहम्मेणं ॥४८॥ एव सुणिऊण राया, कम्मविवागं जणस्स सयलस्स । संसारगमणभीओ, इच्छइ घेत्तूण पव्वज्जं ॥४९॥ सदाविया य सिग्धं, सामन्ता आगया समन्तिजणा । काऊण सिरपणामं, उवविट्ठा आसणवरेसु ॥५०॥ सामिय ! देहाऽऽणत्तिं, किं करणिज्जं? भडेहि संलवियं । भणिया य दसरहेणं, पव्वज्जं गिण्हिमो अज्जं ॥५१॥ चिन्तयति तदा मनसा राज्यं दत्वा पद्मनाभस्य । ततः सर्वसङ्गरहितो मुक्तिसुखमेव प्रार्थयामि ॥३९॥ मेरुरिव धीरगुरुको रामस्त्रिसमुद्रमेखलां पृथिवीम् । पालयितुं समर्थं परिकीर्णो बान्धवजनेन ॥४०॥ हेमन्तवर्णनम् - चिन्तापरस्येवं नरेन्द्रवृषभस्य राज्यविमुखस्य । अभिलवितश्च शरद्धेमन्तश्चैव संप्राप्तः ॥४१॥ हेमन्तवातविभवो लोकः परिस्फुटिताधर-कर-चरणः । रजोरेणुपटलच्छनः शशीव मन्दच्छविं वहति ॥४२॥ आकुञ्चितकरग्रीवाः पुरुषाः शीतेन स्फुटितसर्वाङ्गाः । स्मरन्त्यग्निनिवहं दीना अपि च मन्दप्रावरणाः ॥४३॥ आपतितदशनवीणादारुतृणाजीवकाथरथरन्तः । दारिद्र्यसमभिभूता गमयन्ति कालमकृतपुण्याः ॥४४॥ प्रासादतलस्था अपि चान्ये पुन र्गीतवादितरवेण । वरवस्त्रप्रावृताङ्गाः कालागरुधूपसुसुगन्धाः ॥४५॥ भुञ्जते सदा रसिकमाहारं कनकभाजनवितीर्णम् । कुंकुमकृताङ्गरागा अक्षीणधनाः सुकृतपुण्याः ॥४६॥ कलमधुरभाषिणिभिः संगतवरचारूवेशरूपाभिः । तरुणवनिताभिः समकं क्रीडन्ति चिरं सुकृतपुण्याः ॥४७॥ धर्मेण लभते जीव: सुर-मनुष्यविविधभोगसमृद्धिम् । नरक-तिर्यक्षु पुनः प्राप्नोति दुःखमधर्मेण ॥४८॥ एवं श्रुत्वा राजा कर्मविपाकं जनस्य सकलस्य । संसारगमनभीत इच्छति ग्रहितुं प्रव्रज्याम् ॥४९॥ शब्दिताश्च शीघ्रं सामन्ता आगता समन्त्रिजनाः । कृत्वा शिरः प्रणाममुपविष्य आसनवरेषु ॥५०॥ स्वामिन् ! देह्याज्ञेति किं कर्त्तव्यं ? भटैः संलप्तम् । भणिता च दशरथेन प्रव्रज्यां गृह्णाम्यद्यः ॥५१॥
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org