________________
|| ३०. भामण्डलसंगमविहाणं )
घणगरुयगज्जियरवो, कालो च्चिय पाउस वइक्वन्तो । उद्दण्डपुण्डरीओ, संपइ सरओ समणुपत्तो ॥१॥ ववगयघणसेवालं, ससिहंसं धवलतारयाकुमुयं । लोगस्स कुणइ पीई, नभसलिलं पेच्छिउं सरए ॥२॥ चक्काय-हंस-सारस-अन्नोन्नरसन्तकयसमालावा । निप्फण्णसव्वसस्सा, अहियं चिय रेहए वसुहा ॥३॥ भामण्डलस्स एवं, सीयाचिन्ताए गहियहिययस्स । सरओ च्चिय वोलीणो, मयणमहाजलणतवियस्स ॥४॥ अह अन्नया कमारो. लज्जा मोत्तण पिउसगासम्मि । सीयाए कारणटे, भणइ वसन्तद्धयं मित्तं ॥५॥ मा कुणसु दीहसुत्तं, परकज्जं सीयलं परिगणेन्तो । मयणसमुद्दविवडियं, सुपुरिस ! तं मे न उक्खिवसि ॥६॥ एवं समुल्लवन्तं, भणइ कुमारं महद्धओ वयणं । निसुणेहि कहिज्जन्तं, सम्बन्धं तीए कन्नाए ॥७॥ जणओ कुमार ! अम्हे, एत्थाऽऽणेऊण मग्गिओ कन्नं । तेणं पि एवं भणियं, रामस्स मए पढमदिन्ना ॥८॥ पुणरवि कहइ मित्तो, सव्वं धणुयाइयं जहावत्तं । रामेण निवइमझे, सीया विभवेण परिणीया ॥९॥ नीया साएयपुरी, रामेण महाबलेण सा कन्ना । इन्दो वि पुव्वविहियं कुमार ! न य अन्नहा कुणइ ॥१०॥ सुणिऊण वयणमेयं, रुट्ठो भामण्डलो भणइ एवं । विज्जाहरत्तणं मे, निरत्थयं तीए रहियस्स ॥११॥
| ३०. भामण्डलसंगमविधानम् ॥
घनगुरुकर्जितरवः काल एव प्रावृट् व्यतिक्रान्तः । उद्दण्डपुण्डरिकः संप्रति शरत् समनुप्राप्तः ॥१॥ व्यपगतघनशेवालं शशिहंसं धवलतारकाकुमुदम् । लोकस्य करोति प्रीति नभः सलिलं दृष्ट्वा शरदि ॥२॥ चक्रवाक्-हंस-सारसान्योन्यरसन्कृतसमालापा । निष्पन्नसर्वशस्याऽधिकमेव राजते वसुधा ॥३॥ भामण्डलस्येवं सीताचिन्तया गृहीतहृदयस्य । शरदेव व्यतितो मदनमहाज्वलनतप्तस्य ॥४॥ अथान्यदा कुमारो लज्जा मुक्त्वा पितृसकाशे । सीतायाः कारणार्थे भणति वसन्तध्वजं मित्रम् ।।५।। मा कुरु दीर्घसूत्रं परकार्यं शीतलं परिगणयन् । मदनसमुद्रविपतितं सत्पुरुष ! त्वं मे नोत्क्षिपसि ॥६॥ एवं समुल्लपन्तं भणति कुमारं महाध्वजो वचनम् । निश्रुणु कथ्यमानं संबन्धं तस्याः कन्यायाः ॥७॥ जनकः कुमार ! अस्माभिरत्रानीय मार्गितः कन्याम् । तेनाप्येवं भणितं रामाय मया प्रथमदत्ता ॥८॥ पुनरपि कथयति मित्रं सर्व धनुष्यादिकं यथावृत्तम् । रामेण नृपतिमध्ये सीता विभवेन परिणीता ॥९॥ नीता साकेतपुरी रामेण महाबलेन सा कन्या । इन्द्रोऽपि पूर्वविहितं कुमार ! न चान्यथा करोति ॥१०॥ श्रुत्वा वचनमेतद्रुष्टो भामण्डलो भणत्येवम् । विद्याधरत्वं मे निरर्थकं तस्या रहितस्य ॥११॥
१. कुसुम-मु० । २. लज्ज-प्रत्य० । ३. पुरि-प्रत्य० ।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org