________________
पउमचरियं बाहुबलिदीक्षा - जंपइ अहो ! अकज्जं, जं जाणन्ता वि विसयलोभिल्ला । पुरिसा कसायवसगा, करेन्ति एक्कक्कमवि रोहं ॥४९॥ छारस्स कए नासेन्ति, चन्दणं मोत्तियं च दोरत्थे । तह मणुयभोगमूढा, नरा वि नासन्ति देवि४ि॥५०॥ मोत्तुं कसायजुझं, संजमजुज्झेण जुज्झिमो इण्हि । परिसहभडेहि समयं, जाव ठिओ उत्तमट्टम्मि ॥५१॥ नमिऊण जिणवरिन्दं, लोयं काऊण तत्थ बाहुबली । वोसिरियसव्वसङ्गो, जाओ समणो समियपावो ॥५२॥ काऊण सिरपणाम, चक्कहरो भणइ महुरवयणेहिं । मा गेण्हसु पव्वज्जं, भुञ्जसु रज्जं महाभागं ॥५३॥ संवच्छरपडिमत्थं, बाहुबली पणमिऊण चक्कहरो । सयलबलेण समग्गो, साएयपुरि समणुपत्तो ॥५४॥ बाहुबली वि महप्पा, उप्पाडिय केवलं तवबलेणं । निट्ठवियअट्ठकम्मो, दुक्खविमोक्खं गओ मोक्खं ॥५५॥ भरतस्य ऋद्धिः - भरहो वि चक्कवट्टी, एगच्छत्तं इमं भरहवासं । भुञ्जइ भोगसमिद्धि, इन्दो इव देवलोगम्मि ॥५६॥ विज्जाहरनयरसमा, गामा नयरा वि देवलोगसमा । रायसमा गिहवइणो, धणयसमा होन्ति नरवइणो ॥५७॥ चउसट्ठि सहस्साइं, जुवईणं परमरूवधारीणं । बत्तीसं च सहस्सा, राईणं बद्धमउडाणं ॥५८॥ मत्तवरवारणाणं, चउरासीइं च सयसहस्साई । तावइया परिसंखा, रहाण धय-छत्तचिन्धाणं ॥५९॥ बाहुबलिदीक्षा - जल्पत्यहो ! अकार्यं यज्जानन्तोऽपि विषयलोभवन्तः । पुरुषाः कषायवशगाः कुर्वन्त्येकैकमपि रोधम् ॥४९॥ क्षारस्य कृते नश्यन्ति चन्दनं मौक्तिकं च दवरकार्थे । तथा मनुष्यभोगमूढा नरा अपि नाशयन्ति देवद्धिम् ॥५०॥ मुक्त्वा कषाययुद्धं संयमयुद्धेन युध्यामोऽधुना। परिषहभटैः समं यावत्स्थित उत्तमार्थे ॥५१॥ नत्वा जिनवरेन्द्रं लोचं कृत्वा तत्र बाहुबलिः । व्युत्सृष्ट सर्वसङ्गो जातः श्रमणः समितपापः॥५२॥ कृत्वा शिरप्रणामं चक्रधरो भणति मधुरवचनैः । मा गृहाण प्रवज्यां भुंक्ष्व राज्यं महाभोगम् ॥५३॥ संवत्सरप्रतिमास्थं बाहुबलि प्रणम्य चक्रधरः । सकलबलेन समग्रः साकेतपुरि समनुप्राप्तः ॥५४॥ बाहुबल्यपि महात्मोत्पादित केवलं तपोबलेन । निष्ठापिताष्टकर्मा दुःखविमोक्षं गतो मोक्षम् ॥५५॥ भरतस्य ऋद्धिःभरतोऽपि चक्रवकछत्रमिदं भरतवर्षम् । भुनक्ति भोगसमृद्धिमिन्द्र इव देवलोके ॥५६॥ विद्याधरनगरसमा ग्रामा नगरा अपि च देवलोकसमाः । राज समा गृहपतयो धनदसमा भवन्ति नरपतयः ॥५७॥ चतुषष्ठिसहस्राणि युवतीनां परमरुपधारीणाम् । द्वात्रिंशच्च सहस्राणि राज्ञां बद्धमुकुटानाम् ।।५८॥ मत्त वरवारणानां चतुरशीतिश्च शतसहस्राणि । तावती परिसंख्या रथानां ध्वजछत्रचिह्नानाम् ।।५९॥
१. महाभोगं० मु०।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org