________________
अणंतविरियधम्मकहणाहियारो-१४/११२-१३७ ।।
१७१ दसवरिससहस्साऊ, भुञ्जइ जो अन्नदेवयासत्तो । पलिओवमकोडी पुण, होइ ठिई जिणवरतवेणं ॥१२६॥ तत्तो चुओ समाणो, मणुयभवे लहइ उत्तमं भोगं । जह तावसदुहियाए, लद्धं रण्णे वसन्तीए ॥१२७॥ भुञ्जइ अणन्तरेणं, दोण्णि य वेलाउ जो निओगेणं । सो पावइ उववासा, अट्ठावीसं तु मासेणं ॥१२८॥
सो तस्स फलं विउलं, भुञ्जइ सुरजुवइनिवहमज्झगओ।
सिरि-कित्ति-लच्छिनिलओ, दिव्वामलविरड्याभरणो ॥१२९॥ अणुभविय विसयसोक्खं, आयाओ माणुसम्मि लोगम्मि । उत्तमवंसुब्भूओ, रमणि य रइसागरोगाढो ॥१३०॥ एवं मुहुत्तवुड्डी, उववासे छट्ठमट्ठमादीए । जो कुणइ जहाथामं, तस्स फलं तारिसं भणियं ॥१३१॥ सो तस्स फलं विउलं, सुरलोए भुञ्जिउं सुचिरकालं । लहिऊण माणुसत्तं, बहुजणसयसामिओ होइ ॥१३२॥ रात्रिभोजनविरतिस्तत्फलं च :जो कुणइ अणथमियं, पुरिसो जिणभत्तिभावियमईओ । सो वरविमाणवासी, रमइ चिरं सुरवहूसहिओ ॥१३३॥ अणथन्ते दिवसयरे, जो चयइ चउव्विहं पि आहारं । सो जगजगेन्तसोहे, वसइ विमाणे चिरं कालं ॥१३४॥ तत्तो चुओ समाणो, उप्पन्नोएत्थ माणुसे लोए । बहुनयर-खेड-कब्बड-रह-गयवरसामिओ होइ ॥१३५॥ पुणरवि जिणवरविहिए, धम्मे काऊण दढयरं चित्तं । आराहियतव-नियमो, कमेण सिवसासयं लहइ ॥१३६॥ जे पुण रयणीसु नरा, भुञ्जन्ति असंजया वयविहूणा । ते नरय-तिरियवासे, हिण्डन्ति अणन्तयं कालं ॥१३७॥ दशवर्षसहस्रायु (नक्ति योऽन्यदेवतासक्तः । पल्योपमकोटी पुन र्भवति स्थितिर्जिनवरतपसा ॥१२६।। ततश्च्युतः सन् मनुष्यभवे लभत उत्तमं भोगम् । यथा तापसदुहित्रा लब्धमरण्ये वसन्त्या ॥१२७।। भुङ्क्तेऽनन्तरेणं द्वे च वेले यो नियोगेन । स प्राप्नोत्युपवासा अष्टाविंशतिस्तु मासेन ॥१२८॥ स तस्य फलं विपुलं भुनक्ति सुरयुवतिनिवहमध्यगतः । श्री-कीति-लक्ष्मीनिलयो दिव्यामलविरचिताभरणः ॥१२९।। अनुभूय विषयसुखमायातो मनुष्ये लोके । उत्तमवंशोद्भूतो रमते च रतिसागरावगाढः ॥१३०॥ एवं मुहूर्तवृद्धिरुपवासे षष्टाष्टमादयः । यः करोति यथास्थामं तस्य फलं तादृशं भणितम् ॥१३१।। स तस्य फलं विपुलं सुरलोके भुक्त्वा सुचिरकालम् । लब्ध्वा मनुष्यत्वं बहुजनशतस्वामी भवति ॥१३२॥ रात्रिभोजनविरतिस्तत्फलं च - यः करोत्यनस्तमितं पुरुषो जिनभक्तिभावितमतिः । स वरविमानवासी रमते चिरं सुरवधुसहितः ॥१३३।। अनस्ते दिवाकरे यस्त्यजति चतुर्विधमप्याहारम् । स झगझगच्छोभे वसति विमाने चिरंकालम् ॥१३४॥ ततश्च्युतस्सन्नुत्पन्नोऽत्र मनुष्ये लोके । बहु नगर खेट-कर्वट-रथ-गजवरस्वामी भवति ॥१३५।। पुनरपि जिनवरविहिते धर्मे कृत्वा दृढतरचितम् । आराधिततपोनियमः क्रमेण शिवशाश्वतं लभते ॥१३६।। ये पुना रजन्यां नरा भुञ्जतेऽसंयता व्रतविहीनाः । ते नरक-तिर्यग्वासे हिण्डन्तेऽनन्तं कालम् ॥१३७।।
१. अनस्तमितं रात्रिभोजनविरतिरित्यर्थः ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org