________________
दहमुहविज्जासाहणं - ७ / १२९-१५४
वाउब्भवाय सत्ती (न्ती) कोबेरी सङ्करी य उद्दिट्ठा। जोगेसी बलमहणी, चण्डाली वरिसिणी चेव ॥१४२॥ विज्जाउ एवमाई, सिद्धाओ तस्स बहुविहगुणाओ । थेवदिवसेसु सेणिय !, अल्लीणाओ दहमुहस्स ॥१४३॥ सव्वारुहरइविद्धी, आगासगमा य जम्भणी चेव । निद्दाणी पञ्चमिया, सिद्धा' चिय भाणुकण्णस्स ॥१४४॥ सिद्धत्था अरिदमणी, निव्वाघाया खगामिणी पमुहा । एया वि हु विज्जाओ, पत्ताउ बिभीसणेण तया ॥ १४५ ॥ अह ते समत्तनियमा, जक्खाहिवईण तत्थ तुट्टेणं । सम्माणिय- कयपूया, दिन्नासीसा तओ भणिया ॥ १४६ ॥ दहमुह ! बन्धवसहिओ, महइमहाइड्डि- सत्तसंपन्नो । पडिवक्खअपरिभूओ, जीवसु कालं अइमहन्तं ॥ १४७॥ अन्नं पिएव निसणसु, जम्बुद्दीवे समुद्दपेरन्ते । सच्छन्दसुहविहारी, हिण्डसु मज्झं पसाएओणं ॥१४८॥ कइलाससिहरसरिसोवमेसु भवणेसु संविरायन्तं । दिव्वं सयंपभपुरं, धणएण कयं दहमुहस्स ॥१४९॥ काऊण य सम्माणं, निययपुरं पत्थिओ महाजक्खो । सिग्घं च रक्खसभडा, संपत्ता सव्वपरिवारा ॥ १५० ॥ तत्तो महूसवं ते, करेन्ति अच्चन्तहरिसियमईया । बहुतूरसद्दकलयल-सिद्धवहूमङ्गलुग्गीयं ॥१५१॥ संपत्तो य सुमाली, पियामहो मालवन्तनामो य । रिक्खरया - ऽऽइच्चरया, रयणासवमाइया सव्वे ॥१५२॥ दिट्ठा कुमारसीहा, कयविणया ते गुरुं समल्लीणा । सव्वे वि य एगट्ठे, वच्चन्ति सयंपभं नरं ॥ १५३ ॥ दट्टूण केकसी वि य, पुत्ते वरहार-कुण्डलाहरणे । पुलइयरोमञ्चइया, न माइ नियगेसु अङ्गेसु ॥१५४॥
वायूद्भवा च शक्तिः कौबेरी शङ्करी चोपदिष्टा । योगेश्वरी बलमथनी चाण्डाली वर्षिणी चैव ॥ १४२ ॥ विद्या एवमादयः सिद्धास्तस्य बहुविधगुणाः । स्तोकदिवसैः श्रेणिक ! आलीना दशमुखस्य ॥१४३॥ सर्वारोह रतिवृद्ध्याकाशगमा च जृम्भीण्येव । निद्राणी पञ्चम सिद्धैव भानुकर्णस्य ॥१४४॥ सिद्धार्थाऽरिदमनी निर्व्याघाता खगामिनी प्रमुखा । एता अपि खलु विद्याः प्राप्ता बिभीषणेन तदा ॥१४५॥ अथ ते समाप्तनियमा यक्षाधिपतिना तत्र तुष्टेन । सम्मानितकृतपूजा दत्ताऽऽशिषस्ततो भणिताः ॥१४६॥ दशमुख ! बन्धवसहितो महतिमद्धिसत्त्वसंपन्नः । प्रतिपक्षापरिभूतो जीव कालमतिमहत् ॥१४७॥ अन्यदप्येव निःश्रुणु जम्बूद्वीपे समुद्रपर्यन्ते । स्वच्छन्दसुखविहारीहिण्डस्व मम प्रसादेन ॥१४८॥ कैलाशशिखरसदृशोपमेषु भवनेषु संविराजयन् । दिव्यं स्वयंप्रभपुरं धनदेवकृतं दशमुखस्य ॥१४९॥ कृत्वा च सन्मानं निजकपुरं प्रस्थितो महायक्षः । शीघ्रं च राक्षसभटा संप्राप्ताः सर्वपरिवाराः ॥ १५०॥ ततो महोत्सवं ते कुर्वन्त्यत्यन्तहर्षितमतयः । बहुतूर्यशब्दकलकलसिद्धवधूमङ्गलोद्गीतम् ॥१५१॥ संप्राप्तश्च सुमाली पितामहो माल्यवान् नाम च । ऋक्षरजा आदित्यरजा रत्नश्रवसादिकाः सर्वे ॥१५२॥ दृष्टाः कुमारसिंहाः कृतविनयास्ते गुरुं समालीनाः । सर्वेऽपि च एकत्र गच्छन्ति स्वयंप्रभं नगरम् ॥१५३॥ दृष्ट्वा केकश्यपि च पुत्रान् वरहारकुण्डलाभरणान् । पुलकितरोमाञ्चिता न माति निजकेष्वङ्गेषु ॥ १५४॥
१. विज्जा चिय प्रत्य० ।
Jain Education International
For Personal & Private Use Only
९५
www.jainelibrary.org