________________
दहमुहविज्जासाहणं-७/१-२४ तो सो नमि व्व नज्जइ, सव्वेसिं खेयराण सामित्तं । कुणइ सुवीसत्थमणो, विज्जाबलगव्विओ धीरो ॥१२॥ लङ्काहिवो वि माली, इन्दं सोऊण खेयराणिन्दं । बल-भाइ-मित्तसहिओ, तस्सुवरि पत्थिओ सहसा ॥१३॥ गय-तुरय-वसभ-केसरि-मय-महिस-वराहवाहणारूढा । वच्चन्ति रक्खसभडा, छायन्ता अम्बरं तुरिया ॥१४॥ सव्वत्थसत्थकुसलो, भणइ सुमाली सहोयरंजेठं । एत्थं कुणहाऽऽवासं, अहव पुरिं पडिनियत्तामो ॥१५॥ दीसन्ति महाघोरा, उप्पाया सउणया य विवरीया । एते कहन्ति अजयं, अम्हं नत्थेत्थ संदेहो ॥१६॥ रिटु-खर-तुरय-वसहा, सारस-सयवत्त-कोल्हुयाईया । वासन्ति दाहिणिल्ला, एते अजयावहा अम्हं ॥१७॥ सोऊण वयणमेयं, माली पडिभणइ गव्विओ हसिउं । किं दाढीभयभीओ, निययगुहं केसरी चियइ ? ॥१८॥ नन्दणवणे महन्ता, जिणालया कारिया रयणचित्ता । अणुहूयं पवरसुहं, दाणं च किमिच्छियं दिन्नं ॥१९॥ समलंकियं च गोत्तं, जसेण ससिकुन्दनिम्मलयरेणं । जइ होइ समरमज्झे, मरणं तो किं न पज्जत्तं ॥२०॥ एवं सुमालिवयणं, अवगण्णेऊण पत्थिओ माली । वेयड्डनगवरिन्दे, रहनेउरचक्कवालपुरं ॥२१॥ सोऊण रक्खसबलं, समागयं लोगपालपरिकिण्णो । एरावणमारूढो, नयराओ निग्गओ इंदो ॥२२॥
अन्नोन्नरहसपेल्लण-रहवर-गय-तुरयनिहव-पाइक्कं । निक्खमइ इन्दसेन्नं, रणरसपरिवड्ढिउच्छाहं ॥२३॥ रक्खस-पवंगवीरा, सुरसेन्नं पेच्छिऊण सन्नद्धं । बाणासणी मुयन्ता, आभिट्टा इन्दसुहडाणं ॥२४॥
तदा स नमि इव ज्ञायते खेचराणां स्वामित्वम् । करोति सुविश्वस्तमना विद्याबलगवितो धीरः ॥१२॥ लङ्काधिपोऽपि मालीन्द्रं श्रुत्वा खेचराणामिन्द्रम् । बल-भातृ-मित्र सहितस्तस्योपरि प्रस्थितं सहसा ॥१३॥ गज-तुरग-वृषभ-केसरि-मृग-महिष-वराहवाहना रूढाः । गच्छन्ति राक्षसभटाश्च्छादयन्तोऽम्बरं त्वरिताः ॥१४॥ सर्वास्त्रशास्त्रकुशलो भणति सुमाली सहोदरं ज्येष्ठम् । अत्र कुर्यावासमथवा पुरि प्रतिनिवर्तामहे ॥१५॥ दृश्यन्ते महाघोरा उत्पादाः शकुनाश्च विपरिताः । एते कथयन्त्यिजयमस्माकं नास्त्यत्र संदेहः ॥१६॥ रिष्ट-खर-तुरग-वृषभाः सारस-शतपत्र-शृगालादिकाः । भाषन्ते दाक्षिणा एते ऽजयावहा अस्माकम् ॥१७॥ श्रुत्वा वचनमेतन्माली प्रतिभणति गर्वितो हसित्वा । किं शूकरभयभीतो निजगृहां केसरी त्यजति ? ॥१८॥ नन्दनवने महान्तो जिनालया: कारिता रत्नचित्राः । अनुभूतं प्रवरसुखं दानञ्च किमिच्छितं दत्तम् ॥१९॥ समलङ्कृतं च गोत्रं यशसा शशिकुन्दनिर्मलतरेण । यदि भवति समरमध्ये मरणं तदा किं न पर्याप्तम् ।।२०।। एवं सुमालिवचनमवगण्य प्रस्थितो माली । वैताढ्यनगवरेन्द्रे रथनुपूरचक्रवालपुरम् ॥२१॥ श्रुत्वा राक्षसबलं समागतं लोकपालपरिकीर्णः । ऐरावणमारुढो नगरान्निर्गत इन्द्रः ॥२२॥ अन्योन्यरभसप्रेरणरथवरगजतुरगनिवहपदातिम् । निष्कामतीन्द्रसैन्यं रणरसपरिवर्धितोत्साहम् ॥२३॥ राक्षसप्लवंगवीराः सुरसैन्यं दृष्ट्वा सन्नद्धम् । बाणाशनि मुञ्चन्तः प्रवृता इन्द्रसुभटानाम् ॥२४॥
१. खेयराणंद-मु० । २. दाढि:-शूकरः, दंष्ट्रिन् ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org