________________
६७
रक्खस-वाणरपव्वज्जाविहाणाहियारो-६/११-३६ अह विन्नवेइ पउमा, सामि ! तुमं चलणवन्दणं काउं । सिरिकण्ठस्स नराहिव ! थेवो वि हु नत्थि अवराहो ॥२४॥ सयमेव मए गहिओ, एसो कम्माणुभावजोएण । अन्नस्स मज्झ नियमो, नरस्स एयं पमोत्तूणं ॥२५॥ बहुसत्थ-नीइकुसलो, राया परिचिन्तिऊण हियएणं । दाऊण तस्स कन्नं, निययपुरं पत्थिओ सिग्धं ॥२६॥ मग्गसिरसुद्धपक्खे, नक्खत्ते सोहणे तओ दियहे । वत्तं पाणिग्गहणं, अणन्नसरिसं वसुमईए ॥२७॥ अह भणइ कित्तिधवलो, सिरिकण्ठं तिव्वनेहपडिबद्धो । मा वच्चसु वेयव, तत्थ तुमं वेरिया बहवे ॥२८॥ अत्थेत्थ लवणतोए, दीवो मणि-रयणकिरणविच्छुरिओ । कप्पतरुसन्निहेहिं, संछन्नो पायवगणेहिं ॥२९॥ भीमा-ऽइभीमहेउं, दक्खिण्णं सुरवरेहि काऊण । पुव्वं चिय अणुणाया, खेयरवसहा इहं दीवे ॥३०॥ दीवो संझावेलो, मणपल्हाओ सुवेलकणयहरी । नामं सुओधणो वि य, जलअज्झाणो य हंसो य ॥३१॥ नामेण अद्धसग्गो, उक्कडवियडो त्थ रोहणो अमलो । कन्तो फुरन्तरयणो, तोयवलीसो अलवो य ॥३२॥ दीवो नभो य भाणू, खेमो य हवन्ति एवमाईया। निच्चं मणाभिरामा, आसन्ने देवरमणिज्जा ॥३३॥ अवरुत्तराए एत्तो, दिसाए तिण्णेव जोयणसयाइं । लवणजलमज्झयारे, वाणरदीवो त्ति नामेणं ॥३४॥ तत्थऽच्छसु वीसत्थो, काऊण पुरं महागुणसमिद्धं । बन्धवजणेण सहिओ, सुरवरलील विडम्बन्तो ॥३५॥ चेत्तस्स पढमदिवसे, सिरिकण्ठो निग्गओ सपरिवारो । रह-गय-तुरयसमग्गो, दीवाभिमुहो समुप्पइओ ॥३६॥
अथ विज्ञापयति पद्मा स्वामिन् ! तव चरणवन्दनं कृत्वा । श्रीकण्ठस्य नराधिप ! स्तोकोऽपि हु नास्त्यपराधः ॥२४॥ स्वयमेवमथ गृहीत एष कर्मानुभावयोगेन । अन्यस्य मम नियमो नरस्यैतं प्रमुच्य ॥२५॥ बहुशास्त्रनीतिकुशलो राजा परिचिन्त्य हृदयेन । दत्वा तस्य कन्यां निजपुरं प्रस्थितः शीघ्रम् ॥२६॥ मृगशीर्षशुद्धपक्षे नक्षत्रे शोभने ततो दिवसे । वृत्तं पाणिग्रहणमनन्यसदृशं वसुमत्याम् ॥३७॥ अथ भणति कीर्तिधवल: श्रीकण्ठं तीव्रस्नेहप्रतिबद्धः । मा गच्छ वैताढ्यं तत्र तव वैरिणो बहवः ॥२८॥ अस्त्यत्र लवणतोये द्वीपो मणि-रत्नकिरणविच्छुरितः । कल्पतरुसन्निभैः संच्छनः पादपगणैः ॥२९॥ भीमाऽतिभीमहेतुं दक्षिणां सुरवरैः कृत्वा । पूर्वमेवानुज्ञाताः खेचरवृषभा इह द्वीपे ॥३०॥ द्वीपः संध्यावेलो मनप्रह्लादः सुवेलकनकहरयः । नाम सुयोधनोऽपि च जलोध्यानश्च हंसश्च ॥३१॥ नाम्नार्धस्वर्ग उत्कटविकटोऽथ रोहणोऽमलः । कान्तः स्फूरन्तरत्नस्तोयबलीसोऽलङ्ग्यश्च ॥३२॥ द्वीपो नभश्च भानुः क्षेमश्च भवन्त्यवेमादिकाः । नित्यं मनोभिरामा आसन्ना देवरमणीयाः ॥३३॥ अपरोत्तरायामितो दिशि त्रिण्येव योजनशतानि । लवणजलमध्ये वानरद्वीप इति नाम्ना ॥३४॥ तत्रासतु विश्वस्तः कृत्वा पुरं महागुणसमृद्धम् । बान्धवजनेन सहितः सुरवरलीलां विडम्बयन् ॥३५॥ चैत्रस्य प्रथमदिवसे श्रीकण्ठो निर्गतः सपरिवारः । रथ-गज-तुरगसमग्रो द्वीपाभिमुखः समुत्पतितः ।।३६।।
१. रमणिज्जे-प्रत्य०।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org