________________
५७
सूत्रं ७ ] _____ स्वोपज्ञभाष्य-टीकालङ्कृतम् च, यस्य तदुत्पन्नं तस्य तत्परिणन्तुः यं च निमित्तीकृत्य साधमुपजायते दर्शनं तस्य च तदिति उभयोर्विवक्षितत्वेन जीवस्य च जीवस्य च विकल्पः सम्भाव्यते।१तथा यस्य तदुत्पन्न तस्य च विवक्षितम्, याभ्यां च दृश्यमानाभ्यां साधुभ्यां तदुत्पादितं तयोश्च साधुजीवयोस्तत् सम्यग्दर्शनमुभयत्रापि खत्वेन विवक्षितत्वात् जीवस्थ जीवयोश्च द्वितीयविकल्पः । २ । तथा यस्य तदुत्पन्नं तस्य विवक्षितं यैश्च दृश्यमानः साधुभिरुत्पादितं तेषां च तत् सम्यग्दर्शनं सम्भवीति विकल्पो जीवस्य जीवानां चेति । ३। तथा यस्य जीवस्य तदुत्पन्नं तस्य च विवक्षितं यया च दृश्यमानया प्रतिमया अजीवरूपयोत्पादितं तस्याश्च तदिति तदा जीवस्य च तत तस्याश्र प्रतिमायास्तदिति सम्भाव्यते विकल्पः जीवस्याजीवस्य चेति । ४। तथा जीवस्य त(य)स्य तदुत्पन्नं याभ्यां च प्रतिमाभ्यां दृश्यमानाभ्यां तदुत्पादितमुभयत्र विवक्षितत्वात् सम्भाव्ययं विकल्पो जीवस्याजीवयोश्चेति ।५। तथा त(य)स्य तदुत्पन्नं याभिश्च प्रतिमाभिः दृश्यमानाभिरुत्पादितं सर्वत्र विवक्षितत्वात् जीवस्याजीवानां चेति भङ्गकः सम्भाव्यते । ६। एतदाह-शेषाः सन्ति, पडित्यर्थः । सम्प्रति तृतीयद्वार परामृशन्नाहसाधनम् इति । साध्यते-निर्वत्येते येन तत् साधनम् । अत्र पृच्छयमानं, तदाह - भा०-साधनम् । सम्यग्दर्शनं केन भवति?। निसर्गादधिगमाद् वा भव
तीत्युक्तम् (१-३) । तत्र निसर्गः पूर्वोक्तः । अधिगमस्तु क्षयोपशमादीनां
ना सम्यग्व्यायामः । उभयमपि तदावरणीयस्य कर्मणः क्षयेणासाधनता
" पशमेन क्षयोपशमाभ्यामिति ॥ टी०-सम्यग्दर्शनं केन भवति-या सौ रुचिः सुविशुद्धसम्यक्त्वदलिकोपेता सा केन भवतीत्यर्थः । इतर आह-निसर्गादधिगमाद् वा भवतीत्युक्तम् , एतत् कथयति-न तावेव निसर्गाधिगमौ तादृशीं रुचिं जनयतः, किन्तु निसर्गाधिगमाभ्यां क्षयोपशमादयः कर्मणों जन्यन्ते, ततः क्षयोपशमादेः सम्यग्दर्शनं सम्भवति, तावपि च निसर्गाधिगमौ कर्मणां क्षयोपशमादेरेव भवतः, ततस्ताभ्यामुत्तरोत्तरक्षयोपशमं विशुद्धं विशुद्धतरमापादयमानाभ्यां यदा प्रतिविशिष्टः क्षयोपशम आपादितो भवति तदा तस्मात् प्रतिविशिष्टात् क्षयोपशमात् सम्यग्दर्शनं भवति इति कथयति । तत्र निसर्गे बहु वक्तव्यमिति प्राक् तद्दर्शितमेव, एकेन च वाक्येन न शक्यं तत् समस्तं दर्शयितुमित्यतिदिशति-तत्र निसर्गः पूर्वोक्तः । अधिगमोऽल्पविचारत्वादेकेनैव वाक्येन, समस्ताधिगमोपसंहारभावादाह-अधिगमस्तु सम्यग्व्यायाम इति । गुर्वादिसमीपाध्यासिनः शुभा या क्रिया सम्यग्दर्शनोत्पादनशक्ता सा सम्यग्व्यायाम इत्युच्यते । उभयमपीत्यादि । उभयमपीति निसर्गसम्यग्दर्शनमधिगमसम्यग्दशनं च, तो च निसगोधिगमावुभावपि कथं भवतः ? । आह -तदावरणीयेत्यादि। तस्य रुचिलक्षणस्य ज्ञानस्य यदावरणीयकं तत् तदावरणीयं, आवरणीयशब्दाच निश्चीयते
१'व्याख्यायाम' इति क-ख-पाठः । २ 'कर्मणां' इत्यधिकः क-ख-पाठः । २ 'व्याख्यायाम' इति क-ख-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org