________________
५६
तत्वार्थाधिगमसूत्रम्
[ अध्यायः १
कान्नापेक्षा क्रियते प्रतिमादेः तदाऽसौ परिणाम आत्मनि समवेत इतिकृत्वा स एवात्मा तेन परिणामेन तानि तत्त्वान्येवमभिमन्यते, अतः आत्मसंयोगेन जीवस्य सम्यग्दर्शनम्, जीवस्य स्वामिनः सम्यग्दर्शनं रुचिरिति । परसंयोगेनेति । परं साधुप्रतिमादिवस्तु तन्निमित्तीकृत्य श्रद्धानपरिणाम उपजायते अतः स परिणामस्तत्कर्तृक इति तस्य व्यपदिश्यते । अत्र च परसंयोगे षड् विकल्पा भवन्ति जीवस्येत्यादयः । यदाऽस्य जन्तोः परमेकं मुनिमालम्ब्य क्रियानुष्ठानयुक्तं सा रुचिरुपजायते, क्षयोपशमो हि द्रव्यादिपञ्चकमुररीकृत्य प्रादुरस्ति, अतो बहिरवस्थितस्य साधोरुत्पादयितुः सा रुचिः, स्वं कुम्भ इव कुम्भकारस्येति । एवमेकमजीवाख्यं पदार्थं प्रतिमादिकं प्रतीत्य यदा क्षयोपशमः समुपाजनि तदा तस्यैवाजीवस्य सम्यग्दर्शनं नात्मन इति । यदा पुनद्व साधू निमित्तं क्षयोपशमस्य विवक्षितौ नात्मा तदा जीवयोः सम्यग्दर्शनम् । यदा पुनरजीवौ प्रतिमाख्यावुभौ निमित्तीकृतौ तदा तयोः स्वामित्वविवक्षायां तत् सम्यग्दर्शनमिति । यदा पुनर्बहवो जीवाः साधवस्तस्योत्पत्तौ निमित्तं भवन्ति तदा जीवानां सम्यग्दर्शनं नतु यत्र समवेतमिति । यदा पुनर्चही : प्रतिमा भगवतां दृष्ट्वा तत्त्वार्थश्रद्धानमाविर्भवति तदा च तासामेव तत्कर्तृत्वान्नात्मन इति ॥ उभयसंयोगेनेति । यदात्मनोऽन्तरङ्गस्य बहिरङ्गस्य च साध्वादेस्तद् विवक्ष्यते तदा उभौ तस्य सम्यग्दर्शनस्य स्वामिनौ भवत इत्युभयसंयोगोऽभिधीयते । अत्र च लाघविक आचार्यो हेयान् विकल्पान् दर्शयति । आदेयाः पुनरुपात्तव्यतिरिक्ताः । अयं तावदत्र विकल्पो न सम्भवति जीवस्य सम्यग्दर्शनमिति, यतोऽनेन षष्ठ्यन्तेन सम्यग्दर्शनस्य यः समवाय्यात्मा स वा भण्यते बाह्यो वा तीर्थकरादिर्यमवलोक्य स तादृशः परिणतिविशेषः समुदभूदिति, तत्र यद्यात्मा समवायी सम्बध्यते, नास्ति तदा परस्य सम्बन्धः, उभयसंयोगेन चैतच्चिन्त्यते, अथ बाह्यस्तीर्थकरादिभिरभिसम्बध्यते तदा नात्मादिसम्बन्धः अतस्त्याज्य एवायं विकल्पः । एवं नोजीवस्येति । अजीवस्येत्यर्थः । एकस्याः प्रतिमाया विवक्षितत्वादुभयसंयोगाभाव इति हेयो विकल्पः । तथा जीवयोः सम्यग्दर्शनमिति न सम्भवति यस्माद् द्वावत्र समवायिनौ पुरुषौ स्वामितया विवक्षितौ मम च सम्यग्दर्शनमस्य च सम्यग्दर्शनमुत्पन्नमिति, यतस्तु तदालम्ब्योत्पन्नं विवक्षैव स्वामितया उत्पादकनिमित्तयोश्चोभयसंयोगो विवक्षितः अतस्त्यज्यते । तथा अजीवयोः सम्यग्दर्शनमिति द्वयोः प्रतिमयोरालम्बनीकृतयोर्भेदेन तद् विवक्षितम्, यत्र तु समवेतं तत्राविवक्षातस्त्यज्यते अयमपि विकल्पः । तथा पञ्चमोऽपि त्याज्यः । जीवानामिति । aa tara ra सम्यग्दर्शनसमवायिनो विवक्षिता जीवा मम अस्य चास्य चेति न येनालम्बनेन तेषामुत्पन्नं तस्यालम्व्यस्य तत् सम्यग्दर्शनं विवक्षितम्, तस्मादयमपि त्याज्यः । षष्ठोऽपि अजीवानामिति त्यज्यते, आलम्ब्यानां बहूनां प्रतिमानामेतत् सम्यग्दर्शन मिति विवक्षितं, यत्र तूत्पन्नं तत्राविवक्षितं यत्र नोत्पन्नं तत्र विवक्षितमिति त्याज्य एव षष्ठो विकल्पः । एवमेते उभयसंयोगविवक्षायां षडपि त्यक्ताः ।। आदेया अपि षडेव, यथा जीवस्य च जीवस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org