SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् [श्रीसिद्धसेनचने धर्मस्यैकस्यापि पदस्योपयोगः संसारनिर्वाहकः किमङ्ग पुनरेवंविधार्थविस्तारविषयस्येति, तस्मात् सङ्क्षपाद् विस्तराञ्च जिनवचनं श्रेयस्करमिति । तदाह-" एकमपि तु जिनवचनाद्" इत्यादि यावत् “धाय च वाच्यं च” (२७-२८) इति ॥ किश्च जिनमतानभिबस्य परस्येदं चोद्य-लोकानुग्रहासम्पादनाद्वयर्थ एकदेशसङ्ग्रह इति, कथं ?, संसारदुःखार्तसत्त्वाऽनुकम्पाद्रवीकृतात्मा परानुग्रहप्रवणो विधिप्रवृत्तोऽसपरोपकारोऽपि तत्प्रयोगशुद्धित एव स्वयं तावनिःश्रेयसभाग् भवतीति नियमादसाकं यतिधर्मो देशनीयः सद्धर्म इति हेतोः । प्रोक्तं हि भगवद्भिः "उठिएसु वा अणुटिएसु वा सुस्सूसमाणेसु पवेअएय अज्जवयं" इत्यादि यावत् "बुज्झमाणाणं जहा से दीवे असंदीणे एवं सरणं भवइ महामुणी"।' -आचाराङ्गे, श्रु० १ अ० ६ उ. प. तथा। "भवसयसहस्समहणो, विवोहओ भविय पुंडरीयाणं । धम्मो जिणपन्नत्तो, पकप्पजइणा कहेयव्वो" ॥ आर्या इति, तदाह-" न भवति धर्म" इत्यादि (२९-३१) । इति स्वोपज्ञसम्बन्धकारिकाः टीकाद्वयसमेताः समाप्ताः ॥ १'द्वयर्थ' इति ख-पाठः। २ उत्थितेषु ( उपस्थितेषु) अनुपस्थितेषु प्रवेदयेत्-आर्जविताम् । ३ उत्यमानानां यथा स द्वीपः अस्यन्दनः एवं शरणं भवति महामुनिः । ४ भवशतसहस्रमथनो विबोधनो भव्यपुण्डरीकाणाम् । धर्मो जिनप्रज्ञप्तः *प्रकल्पयतिना कथयितव्यः ॥ * प्रकल्प:-आचारप्रकल्पः निशीथसूत्रमित्यर्थः। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy