________________
गणिकृतटीका ] सम्बन्धकारिकाः
२३ दरैः स एवातिशयादर्चनीयः ॥ ६ ॥ (३-६) स कः, अहमिति सामान्योक्त विशेषे व्यवस्थाप्यते यावत् "तस्मादहति पूजामहन्नेवोत्तमोत्तमो लोके" (७) इति ॥ स किमर्थ कृपाप्रसादयोरभावादर्थ्यनुग्रहाप्रवणः सर्वजगता सेव्यत इति चेत्, प्रक्षीणाशेषरागादिदोषवातस्य प्रसादद्रविणाभावेऽपि तत्सेवातो निःश्रेयसलाभस्य ध्रुवत्वात, तदाह-"अभ्यर्चनादर्हतां" (८) इत्यादि ॥ कृतकृत्यस्य प्रयोजनोद्देशाभावादप्रेक्षितकार्यचेष्टानाप्तत्वात् परानुग्रहप्रवृत्तिरेव तर्हि न स्यादिति चेत्, न, तीर्थकृनामकर्मानुभावाजगद्धितकारित्वशैल्युपपत्तेः, अनपेक्षितप्रयोजनभास्करप्रकाशनादिवदित्याह-" तीर्थप्रवर्तनफलं" (९) इत्यादि ॥ अथवाऽनुत्तरपारमर्षज्ञानबुद्धातिशयाचप्रमेयर्द्धिनिःश्रेयसाभ्युदयार्थगमनमपेक्ष्य कृतार्थत्वविशेषणात् अवश्यवेद्यतीर्थकरनामकर्मवेदनाद्यायुष्कतन्तुबन्धादिक्षपणमात्रकार्यशेषापेक्षमकृतार्थतापि स्याद्वादिनो न दोषायेति (१०) ॥ अत्राह-संसारान्तर्वर्तिजनसामान्यात् तस्येयं कुतोऽनुत्तरगुणसम्पत्, कृतार्थत्वं वा ?, नहीष्टः सः स्वयम्भूरिति, उच्यते, अनुभावविशेषजनिततारतम्यकुशलाकुशलप्रपञ्चैः कर्मभिरेवापादितप्रकर्षनिकर्षभेदवैश्वरूप्यो जीवलोको दृष्टो, नहि कर्मणामलध्यमस्तीति, अतोऽनेकजन्मान्तराभ्यासात् तीर्थकृत्त्वाभिनिवर्तिकाभिः दर्शनतपोयोगाद्युत्तमविशुद्धाभिर्भावनाभिरुपचितस्फातीकृतपरमप्रकृष्टपुण्यसम्भारातिशयादोपाणामत्यन्तव्यावृत्तेः अनर्घ्यगुणरत्नमहानिधीनां (१) परमेश्वरत्वमुपपन्नं भगवत इत्याह"यः शुभकर्मासेवन" (११) इत्यादि यावत् “कृत्वा त्रिकरणशुद्धं तस्मै परमर्षये नमस्कारम् । पूज्यतमाय भगवते वीराय विलीनमोहाय" (२१) इति ॥ अतोऽपरिमेयानुत्तरानन्तगुणस्वार्थसम्पयुक्तः सद्धर्मतीर्थस्यास्य प्रणायको भगवान् जगत्परमेश्वरः प्रत्यासन्नोऽस्मत्परमबान्धवो महावीरोऽभिप्रणम्य इत्यस्यैव नमस्कारः इत्येवं नमस्कारभावमङ्गलपुरस्सरत्वं तत्त्वार्थाधिगमसङ्ग्रहस्याविष्कृतम् । शुद्धिश्च यथोक्तमौनीन्द्रप्रवचनानपेतत्वादिति (११-२१)॥ इदानीं सङ्ग्रहविवक्षाप्रयोजनमाह-"वक्ष्यामि शिष्यहितमिमं"इति । कथं "बह्वर्थसङ्ग्रहं लघुग्रन्थं" (२२) इति वचनात्, कालानुभावादल्पसामयों भव्याः कथं नामाऽल्पीयसा वाक्प्रबन्धेन महतोऽर्थराशेरधिगन्तारः स्युरिति । स्यान्मतं किमयं कृत्स्नस्य प्रवचनस्य सङ्ग्रह उत तदेकदेशस्येति, एकदेशसङ्ग्रहोऽयमित्याह-"अहंद्वचनकदेशस्य" (२३) इति ऐदंयुगीनभव्यलोकानुग्रहमभिसन्धाय किमर्थं पुनः समस्तश्रुतसङ्ग्रहादर एव न कृत इति चेत् कृत्स्नश्रुतार्णवसङ्ग्रहकरणाशक्यत्वादर्थ्यमपि हि नैवाशक्यमारभ्यते इत्यशक्यताप्रतिपादनार्थमाह-"शिरसा" (२४-२६) इत्यादि । स्यादद्धिर्जिनवचनैकदेशसङ्ग्रहत्वात् शिष्यहितप्रतिज्ञा वितथा स्यात्, सर्वजगत्स्वभावनिर्णयात् हिताहितप्राप्तिपरिहारार्थिनामनुग्रहः स्यात्, सकलजगत्तत्त्वं च समस्तश्रुतौघप्रतिपाद्यमिति । उच्यते, नायं नियमः श्रुतार्णवस्य पारं गतवत एव श्रेयःप्राप्तिरिति, किन्त्वेतदपि दृष्टं प्रव
१ 'स्वातीकृत' इति क-पाठः। २ 'पुण्यपुण्य' इति क-पाठः । ३ ‘रयान्मन्ता' इति ख-ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org