________________
सूरिकृतटीका ]
सम्बन्धकारिकाः
व्योम्नीन्दुं चिक्रमिषेन, मेरुगिरिं पाणिना चिकम्पयिषेत् । गत्याऽनिलं जिगीषे - चरमसमुद्रं पिपासेच्च ॥ २५ ॥ आर्या किञ्च,
खद्योतकप्रभाभिः, सोऽभिबुभूषेच्च भास्करं मोहात् । योऽतिमहाग्रन्थार्थं, जिनवचनं संजिघृक्षेत ॥ २६ ॥ ” – विशेषकम्
१७
व्या० - शिरसेत्यादि । भेत्तुमिच्छेत्, उच्चिक्षिप्सेच्च स क्षितिं दोर्भ्यां तमेव गिरिं सह क्षित्योत्क्षेप्तुमिच्छेत्, दोर्भ्यां बाहुभ्यां प्रतितीर्षेच्च समुद्रम् तरीतुमिच्छेत्, दोर्भ्यामिति वर्तते, मित्सेच्च पुनः कुशाग्रेण, तमेव समुद्रमुदबिन्दुपरिमाणाधिगमाय कुशाग्रेण मातुमिच्छेत् ||२४||
व्या० – खद्योतकेत्यादि । खद्योतकैर्भास्करमभिभवामीति भास्करोऽहमित्येवमिच्छेत्, मोहात् मूढो निरर्थकमुन्मत्तोऽनात्मज्ञः, मोहादिति च गिरिभेदादिषु सर्वत्र सम्बध्यते, saत्यादि, अतिमहाग्रन्थार्थं जिनवचनं यः संग्रहीतुमिच्छति स इदं प्रक्रान्तं सर्वमध्यवस्येदित्यर्थः ।। २६ ।।
एवं चोदित आचार्यः सर्वमेतदेवमित्यनुज्ञापवादमाह - एकमपि तु जिनवचनाद्, यस्मान् निर्वाहकं पदं भवति । श्रूयन्ते चानन्ताः, सामायिकमात्र पदसिद्धाः ॥ २७ ॥ आर्या
व्या०- - एकमपीत्यादि । एकमपि पदं, किं पुनरियान् सप्तपदार्थसंग्रह इति तुशब्दो विशेषयति, जिनवचनादित्यवच्छेदे पञ्चमी, यथा समूहाच्छुक्कं प्रकाशते । यस्मादिति कारणे पञ्चमी । यस्मात् कारणान्निर्वाहकं सुगृहीतमप्यभ्यस्यमानमुत्तरोत्तरज्ञानकारणत्वाद् भवोत्तारकमित्यर्थः । न चेयं स्वमनीषिका इत्याह श्रूयन्ते इत्यादि, श्रूयन्ते चानन्ता इति चशब्दः समुच्चये, बीजलाभात् तद विनाशादुत्तरोत्तरवृद्धिसम्भवोऽवसीयते । श्रूयन्ते चेत्यभिप्रायमात्राऽवधारणे, एवं श्रूयन्ते प्रवचने - 'करोमि भदन्त ! सामायिकमित्येतावतैव पदेन भावतः सुगृहीतेनानन्तकालेन अनन्ताः सिद्धा' इत्युक्तं प्रवचने, उदाहरणमात्रं तुषमाषैः स्वाध्याय इति ॥२७॥
यस्माच्चैवमागमो निर्वाहकमिति चावसीयते—
तस्मात् तत्प्रामाण्यात्, समासतो व्यासतश्च जिनवचनम् । श्रेय इति निर्विचार, ग्राह्यं धार्यं च वाच्यं च ॥ २८ ॥ आर्या
व्या० – तस्मादित्यादि । तस्मादागमप्रामाण्यात्, समासतः संक्षेपेण, व्यासतो विस्तरेण, यथाशक्त्याऽध्येयं जिनवचनं, न पुनरवमन्तव्यमिति दर्शयति, श्रेय इति, इदमेव हि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org