________________
तत्त्वार्थाधिगमसूत्रम्
[श्रीदेवगुप्तष्टताप्रसङ्गः स्यात् । न चेयं खमनीषिका । उक्तं हि प्रवचने, इत्येतद् द्वादशाङ्गं गणिपिटकं न कदाचिन्नासीन कदाचिन्न भवति न कदाचिन भविष्यति बभूव भवति भविष्यति चेति । विलीनमोहाय ध्वस्तसंसारवीजायेत्यर्थः ॥ २१ ॥ कृत्त्वोत्तरकालं किमाह-.
व्या०-तत्त्वार्थेत्यादि । तत्त्वार्थोऽधिगम्यतेऽनेनास्मिन् वेति तत्त्वार्थाधिगमः इयमेवास्य गौण्याख्या नामेति तत्त्वार्थाधिगमाख्यस्तं, बह्वयं स च बह्वर्थः बहुर्विपुलोऽर्थोऽस्येति बह्वर्थः सप्तपदार्थनिर्णय एतावांश्च ज्ञेयविषयः । सङ्ग्रहं समासं, लघुग्रन्थं श्लोकशतद्वयमात्रं, वक्ष्यामीति वचोरूपं, अन्यथा हि ब्रूतेः क्रियाफललक्षणमात्मनेपदं स्यात् । शिष्यहितमल्पग्रन्थ हलसा अप्यधीयन्ते, अधुना हि कालपरिहाणेरलसत्वात् सत्त्वानामशक्यः सकलप्रवचनाधिगमस्तदनधिगमे च दीर्घः संसारः तस्मादिममल्पग्रन्थं सङ्ग्रहमधीत्य बीजमात्रमपि तावल्लभन्तां शिष्या इत्यतः शिष्यहितं वक्ष्यामीति अभिप्रायः । इममिति, अनन्तरमेव वक्ष्यामीति । कस्य सङ्ग्रहमित्याह-अहंद्वचनैकदेशस्य, अर्हतामहद्भयो वा वचनं द्वादशाङ्गं गणिपिटकं तस्याप्येकदेशस्य सङ्ग्रहं वक्ष्यामि न सर्वस्य महत्त्वादित्यर्थः ॥ २२॥
एवं तीर्थमहिमाक्षिप्तबुद्धिराचार्यशक्तिमसम्भावयन्नाचार्यदेशीयः प्राहमहतोऽतिमहाविषय-स्य दुर्गमग्रन्थभाष्यपारस्य । कः शक्तः प्रत्यासं-जिनवचनमहोदधेः कर्तुम् ॥ २३ ॥ आर्या व्या०-महत इत्यादि। अयं महच्छब्दोऽस्ति प्रायः प्रांशुत्वे महावृक्षः, अस्ति
वैपुल्ये महोदधिः, अस्ति पूजने महापुरुषः, अस्ति भूयस्त्वे महौजा आदित्यः, "महत शादत्या अस्ति प्राधान्ये महादेवः, अस्ति संज्ञायां महाजनः, अस्ति प्रशस्ये महोदयो
" भूयाः, इह तु भूयस्त्वे, बहुग्रन्थविषयस्येति, प्राधान्यपूजितत्वे तूक्ते, एवं वैपुल्यमपि महोदधेरेव वक्ष्यति । दुर्गमग्रन्थभाष्यपारस्य, दुर्गमो ग्रन्थभाष्ययोः पारो निष्ठाऽस्येति दुर्गमग्रन्थभाष्यपारः । तत्रानुपूर्व्या पदवाक्यसन्निवेशो ग्रन्थः, तस्य महत्त्वादध्ययनमात्रेणापि दुर्गमः पारः, तस्यैवार्थविवरणं भाष्यं, तस्यापि नयवादानुगमत्वादलब्धपारः, अयं ह्यागमः सर्वशक्त्यन्वितेन महतापि पुरुषेण सकलप्रवचनार्थः अशक्यो व्यावर्णयितु
मिति । तदित्थमस्य कः शक्त इत्यादि, अयं किंशन्दोऽस्ति क्षेपे किंसखा 'किं'शब्दस्य विविधार्थाः या
व योऽभिद्रुह्यति, अस्ति प्रश्ने किं ते प्रियं, अस्ति निवारणे किं ते रुदितेन,
" अस्त्यपलापे किं तेऽहं धारयामि, अस्त्यनुनये किं तेऽहं करोमि, अस्त्यवज्ञाने कस्त्वामुल्लापयते, इह त्वपलापे, नास्त्यसौ योऽस्य जिनवचनमहोदधेः प्रत्यासं कर्तुं समर्थ इत्यभिप्रायः ॥२३॥
यश्चैतत्प्रधारयेदसाविदमप्यध्यवस्येदित्याहशिरसा गिरि बिभित्से-दुचिप्सेच स क्षिति दोाम् । प्रतितीर्षेच समुद्र, मित्सेच पुनः कुशायेण ॥ २४॥ आयो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org