________________
सूत्र ३१] स्वोपज्ञभाष्य-टीकालङ्कृतम्
४०५ बन्धनद्वित्वादिसङ्ख्याव्यवहारः सकललोकयात्राक्षमः सिद्धयतीति द्रव्ये वा द्रव्याणि वेत्याह,
. अन्यथैकसङ्ख्याऽपि न स्याद, व्यवहारस्य वा शतभेदत्वात् कश्चिदंशः द्रव्यास्तिके नैगमा प्रतिपन्नदेशकालसङ्ख्याभेदः प्रतिमन्यते द्रव्ये वा द्रव्याणि वेति विकल्प
सम्भवः, सच्च त्रिविधमुत्पादादि, तच्च द्रव्येणार्यमाणमङ्गीकृतसङ्ख्यामेदमेवात्मलाभ प्रतिपद्यते,द्रव्यं वा द्रव्ये वाद्रपाणि वेति,न तु कदाचिद् वचनत्रयप्रतिपाद्यद्रव्यव्यतिरेकेणान्यत् किश्चित् सदस्ति,यतो द्रव्यमित्यपदिष्टे सत् प्रतीयते,द्रव्ये इत्यपि सती,द्रव्याणि च सन्तीत्येवं व्यस्तेषु समस्तेषु च प्रतीयते द्रव्येष्वेव सत्, द्रव्यमाने नियतवृत्तित्वात्, द्रव्यव्यतिरिक्तपदार्थाभावाच्चान्यत्र नोपलभ्यते, यदि स्यादद्रव्यं किञ्चिद् गुणः कर्मादि वा तत्राप्याशङ्केत सतो वृत्तिः, तत् तु नैवास्तीत्ययमर्थोऽनेन भाष्यवचनेन प्रत्याय्यते-असन्नाम नास्ति, असदिति यस्य नाम संज्ञिनस्तत्संज्ञिरूपमसन्नामकं नास्ति, संज्ञिरूपाभावाद् वा संज्ञा नास्ति, परस्परापेक्षत्वात् संज्ञासंज्ञिनोः, एवं चासच्छब्देन गुणाद्यभाव एवोच्यते, स च गुणाधभावो द्रव्यमात्रमेव द्रव्यास्तिकस्येत्युक्तेन प्रकारेण द्रव्यार्थिकस्यार्थपदभावना । अन्ये
भाष्यमेवं पठन्ति–असन्नाम नास्त्येव सावधारणोऽसतः प्रतिषेधः, द्रव्यास्तिके संग्रहः सर्वे द्रव्यमिति सञ्जिघृक्षतो द्रव्यास्तिकस्य हि मातृकापदास्तिकाधपि
सर्वमन्तर्वसतीति, तस्मात् सदित्युक्ते एषामेकत्वद्वित्वबहुत्वानामन्यतमो. को तदवरोधः सन्मात्रत्वादिति । एवं सङ्ग्रहनयेन स्वाभिप्राये द्रव्यास्तिकमात्रतया प्रकाशिते व्यवहारनयः स्वाभिप्रायमाविष्करोति मातृकापदास्तिकोपन्यासेन
भा०-मातृकापदास्तिकस्यापि मातृकापदं वा मातृकापदे वा मातृकापदानि पा सत् । अमातृकापदं वा अमातृकापदे वा अमातृकापदानि वाऽसत् ।
टी०-मातृकापदास्तिकस्यापीत्यादि । धर्मास्तिकायादीनामुद्देशमात्रं मातृकापदास्तिकलक्षणम् , एवं मन्यते व्यवहारः-न द्रव्यमात्रमभेदं सत् संज्ञास्वालक्षण्यादिशून्यं व्यवहतॄणां लौकिकपरीक्षकाणां धियं धिनोति, व्यवहारार्थश्च वस्त्वभ्युपगमः, स च भेदेन प्रायः साध्यते, त्वयाऽपि च मेद एव प्रदर्शितो द्रव्यं वा द्रव्ये वा द्रव्याणि वेति, एकस्मिन्नर्थे एकवचनं दूयोरर्थयोर्दिवचन बहुवर्थेषु च बहुवचनमित्येवं सतो भेदिका सङ्ख्या, न च द्रव्यसतोमें
दस्तद्रव्यमेव सत्सदेव द्रव्यम्, यच्चैकसङ्ख्यावच्छिन्नं सत् तन्न द्वित्वाप्रयास्तिके व्यवहार दिसङ्ख्ययाऽऽश्रयितुं शक्यम्, न घेको द्वौ, द्वौ वा एक इत्येवं लोक
__व्यवहारप्रवणेन भेदोऽभ्युपेयः,किं तद् द्रव्यं धर्माधर्माकाशपुद्गलजीवभेदं गतिस्थित्यवगाहशरीरादिपरस्परोपग्रहणाद्युपकारि संज्ञास्वलक्षणादिविवितं संव्यवहारप्रापण. प्रत्यलं भवति निर्भेदं पुनर्वस्तु न काश्चिद् व्यवहारमात्रामभिमुखीकरोति, भेदप्रधानतायां तु
''मातृकायपि' इति क-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org