________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ५
पादयितुमुपक्रमते --- यदि घटत इति घटः क्रियानिमितशब्दवाच्योऽभ्युपेतस्त्वया ततो यत् तन्निमित्तं सा क्रिया यदैव वर्तमाना तदैव नैमित्तिकः शब्दो युक्तश्चित्रकारादिवत्, तस्माद् दैव घटते- चेष्टते तदैव घटः, तन्निमित्ताभावे पटादिवदेवासौ न घटः, न चातीतानागतनिमितसम्बन्धः, तयोरभावात् न ह्यतीतं भावि वा छत्रदण्डादि छत्रिदण्ड्यादीनां निमित्तं युज्यते, यदि स्यात्, त्रैलोक्यस्य छत्रिदण्डित्वप्रसङ्गः, अतो घटमान एव घटः, क्रियाविशिष्टस्यैव घटता, ततश्च घटशब्देनापि नैवासौ सर्वदा वाच्य इति एवमेष पर्यायनयः (सूक्ष्म) सूक्ष्मतरभेदस्तावदाधावति यावज्ज्ञानमात्रमवशिष्यते शून्यता वा न त्विह सकलक्रमभेदाख्यानं क्रियतेऽन्यत्र प्रपञ्चितत्वात् । एवमेतयोर्द्रव्यास्तिकपर्यायास्तिकयोर्वचनचतुष्टयोपात्तयोः परस्परापेक्षयोरर्पणानर्पणविशेषतः सम्भवद्भिर्विकल्पैर्भाष्यकृत् स्वयमेव सन्नित्यादिभेदभावनां
४०४
करोति
भा० - एषामर्थपदानि द्रव्यं वा द्रव्ये वा द्रव्याणि वा सत् । असन्नाम नास्त्येव द्रव्यास्तिकस्य ।
टी० - एषामर्थपदानीत्यादि । एषां द्रव्यपर्यायनयभेदानां द्रव्यास्तिकादीनां चतुर्णाम् अर्थानि पदानि अर्थपदानि द्रव्यं वा द्रव्ये वा इत्यादीनि, द्रव्यमतनिरूपणम् द्रव्यास्तिकादीनां योऽर्थोऽभिधेयो- वाच्यस्तत्प्रतिपादनप्रयोजनान्येकत्वादीनि युक्तानि द्रव्यादीनि, एभिर्हि द्रव्यास्तिकादीनि व्याख्यायन्ते विकल्पैस्तेषां चार्थाभिधानप्रत्ययभेदेन भिन्नानामन्तरङ्गाभिधानप्रत्ययपदापेक्षया बहुतिथविद्वज्जनाभिमतत्र हिरङ्गार्थपदचिन्ता क्रियते, तिष्टतां तावदभिधानप्रत्ययावित्यर्थ पदमेव प्राक् प्रदsa इत्यर्थः । तत्र द्रव्यं भव्यं योग्यं स्वपर्यायपरिणतेः सर्व धर्मादि भेदवाद्यभिमतमभिन्नलक्षणार्पणयैकत्वेन विवक्ष्यते द्रव्यमिति द्रव्यस्वभावात्यागात् न च द्रव्यव्यतिरिक्तं गुणकर्मादि किञ्चिदस्ति, रूपरसादयस्तद् द्रव्यद्वारेणैवोपलब्धिमार्गमवतरन्तो द्रव्यवृत्तिमात्रत्वेनावधार्यन्ते, न भिन्नजातीयत्वेन, चक्षुरादिग्रहणभेदात् तु वृत्तयस्तास्तस्य भिद्यन्ते, पितृपुत्रमातुलत्वाद्य नेक सम्बन्धिसम्बन्ध विशिष्टपुरुपवत्, अभिन्नस्यैकस्य जिनदप्तादेर्जन्यजनकाद्यनेकसम्बन्धापेक्षाः पित्रादिव्यपदेशाः प्रवर्तन्ते, न तु तस्मात् पुरुषत्रस्तुनोऽर्थान्तरभूतं पितृत्वं नामार्थो जात्यन्तरमस्ति, पुरुषवृत्तिमात्रत्वात्, तथा द्रव्यमपि चक्षुर्ग्रहणादिविषयर्भूयमासादयद् रूपादिव्यपदेशमने कमासादयति, अतोऽनर्थान्तरं रूपरसादयो द्रव्यादिति, कर्मापि विस्रसाप्रयोगसापेक्षो द्रव्यपरिणामस्तद्भावलक्षणो द्रव्यादव्यतिरिच्यमानो द्रव्यमेव, सामान्य विशेषयोरपि तदग्रहे तद्बुद्ध्यभावात् द्रव्यमात्रतैवेति एवमेकमेव द्रव्यं शुद्धप्रकृतेर्द्रव्यार्थस्य । अविशुद्धद्रव्यार्थभेदनैगमस्त्वभिन्नद्रव्येण व्यवहाराभावाद् भेदनि
१ 'नास्ति' ड्रति ग-पाठः | २ 'बहुविध' इति क-ख-पादः । ३ ' भूयसा यद्रूपादि' इति क-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org