SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३६८ तत्वार्थाधिगमसूत्रम् [ अध्याय: ५ 44 वाणोर्न सन्त्यतो निरवयवत्वात् संस्थानित्वासिद्धिः, एवं तर्ह्यसंस्थानित्वादसत्परमाणुरिति, उच्यते - व्योमासंस्थानमपि सदेवेत्यनेकान्तः, न च कन्दुकादिवद् दृष्टपरिधित्वेनाभ्युपगम्यते विहायः, सर्वलोकशास्त्रानुमान विरोधादिति । योऽप्याशङ्केत अभूतान्तर्बहिर्भावान्यदेशत्वेन युष्माभिरभ्युपगतत्वान्नास्ति परमाणुः, तस्यापि हेतोर्निरंशैकक्षणवृत्तिविज्ञाने वर्तमानत्वादनैकान्तता । अपि च - योगः सम्प्राप्तिलक्षणः न चासौ प्रदेशैरेव क्रियते, निष्प्रदेशस्यापि स्वयं प्राप्तिरस्त्येवेति । एतेन नास्तित्वं प्रतिषिद्धमप्यव सातव्यम्, अवयवैरकृतत्वात् तस्येति, पिष्टपेषणं चैतत् कार्या (रया ) महे वयम् उक्त प्राक्- सर्वमेवं हि स्थूलं प्रविभज्यमानमवश्यन्तया निरवयवनिष्टमुपजायते द्रव्यं, सूक्ष्मपूर्वकत्वात् स्थूलस्येति । आह च - “ सर्व सवि - भागम विभागप्रविष्टम्, " यत् पुनस्तेषामेकस्मिन्नेवाकाशप्रदेशे ऽनन्तानामप्यवगाढत्वं तदप्रतिघातपरिणामपरिणतत्वात् व्याप्तैकापवरके प्रदीपप्रभयेवान्यप्रदीपप्रभाणाम्, शीततमः शब्दत्वपरिणतपुद्गलानां चाप्रतिघातित्वदर्शनात्, तद्वत् परमाणुरेकस्मिन् व्योमप्रदेशे व्यवस्थितोऽन्येषामपि परमाणूनां भूयसामवगाहमानानां विघातं प्रति न निवर्तितुमुत्सहते, कथं तर्हि असति प्रतिघाते महतो द्रव्यस्य निष्पत्तिः १ सङ्घातस्तु सति संयोगे सम्भवति, संयोगवाप्राप्तयोः प्राप्तिमात्रं नान्योन्यावेश इति, उच्यते - महतो द्रव्यस्यारम्भकाले परमाणूनामप्रतिघातित्वमस्मान् प्रत्यसिद्धम्, यतस्त्रिविधं प्रतिघातमामनन्ति भगवन्तः परमाणूनां - बन्धपरिणामोपकाराभाववेगाख्यम्, तत्र बन्धपरिणामप्रतिघातः स्त्रिग्धरूक्षत्वाद बन्ध इत्यत्र (०३२) वक्ष्यमाणः, उपकाराभावलक्षणप्रतिघातो गतिस्थित्युपग्रहो धर्माधर्मयोरुपकार इत्यत्र (अ० ५, सू० १७ ) सूत्रेऽर्थाक्षिप्तः प्रेक्षणीयः, लोकादन्यत्र जीवानामजीवानां परमाणूनां प्रतिघातचगतेः प्रतिघातो गत्युपग्रह हेतुरहितत्वाज्झषम करादेरिवाम्भसोऽन्यत्र, स् त्रैविध्यम् अन्वयः सामान्येन सुशक्यः कर्तुम्, अतः परमाणुर्लोकान्ते प्रतिहन्यत इति उपकाराभावात् प्रतिघातितेति, तथाऽणोरण्वन्तरेणापतता विस्रसासमुद्भूतगतिरंहसा प्रतिघातो दृष्टः, प्राप्तवेगगतिर्हि परमाणुरापतन् जविनमेव परमाणुं प्रतिहन्ति, वेगवत्त्वे सति स्पर्शवत्वान्मूर्तिमत्वाच्च प्रबलवेगः प्रभञ्जनो वाद्यान्तरमिवेति प्रतिघातित्वं वेगादध्यवसीयत इति, एवमनेकयोपपत्त्या प्रतिघातित्वाप्रतिघातित्वे परमाणुविषये प्रसाधिते, सम्प्रति तेपामेकव्योमप्र देशा स्कन्दि नामणूनामनन्तानामपि कदाचित् संयोग वृत्त्यावस्थानम नारब्धस्कन्धकार्याणामेव जातुचिद् बन्धाकारेण घटितकार्याणाम् । कः पुनरनयोः संयोग बन्धयोविंशेष इति । उच्यते-- नैरन्तर्येणावयवप्राप्तिमात्रं संयोगः, बन्धः पुनरन्योन्याङ्गाङ्गिभापरिणाम इति, विरोधोद्विभावयिषया कश्चिदाचक्षीताविचक्षणः - कथमेकस्यैवाणोः प्रतिघातित्वाप्रतिघातित्वे परस्परविरुद्धे स्त इति उच्यतेविरोधाभावः प्रागुक्तः, अपि च- परिणामविशेषादुभयमपि सम्भाव्यते पुद्गलेषु, शब्दस्तावत् तिरस्कृतोऽपि कुड्यादिभिरप्रतिहन्यमानः श्रवणपथमभ्युपैति स एव कदाचिदुद्यमानत्वाद्वायुना प्रतिहन्यते, प्रतिवातस्थितेनानुपलभ्यमानत्वादनुवात स्थितेन चोपलभ्यमानत्वाद् गन्धवत्, उद्यते च वायुना शब्दो मा स्म संशयिष्ठाः, तस्मात् सुमूच्यते - सङ्घातादुत्पत्तिः स्कन्धानाम्, १' व्योमदेशे ' इति क ख पाठः । २ ' वाद्यन्तरमिवेति' इति ग-पाठः । संयोगबन्धयोर्विशेषता Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy