________________
सूत्र २६] स्वोपज्ञभाष्य-टीकालङ्कृतम्
३६७ भा०-तद्यथा-बयोः परमाण्वोः सङ्घातात् द्विप्रदेशः, द्विप्रदेशस्याणोश्च सङ्घातात् त्रिप्रदेशः, एवं सङ्ख्येयानामसङ्ख्येयानां च प्रदेशानां सङ्घातात् तावत्प्रदेशाः॥
___टी०-तद्यथेत्यादिना सङ्घातादित्रितयं भावयति, स्कन्धोत्पादकारणं त्रिविधम्, प्रकारान्तराभावप्रदर्शनपरमिदं वचनं मुनेः, द्वयोरित्यादि द्वयोरणुकयोः सङ्घाताद् अन्योन्याश्लेषपरिणामात् ब्यणुकस्कन्धो निष्पद्यते,वक्ष्यत्युपरिष्टात्(अ०५,सू०३२). स्निग्धरूक्षत्वाद् बन्धः' इति, कथं पुनर्निरवयवयोर्द्वयोरणुकयोः संहतौ घणुकः स्कन्धो निष्पद्यते, एवं मन्यते-तयोहि संश्लेषः परस्परेण सर्वात्मनैकदेशेन वा भवेत् ? यदि च सर्वात्मना ततः सकलमपि जगदेकपरमाणुमात्रं स्यात्, एकदेशेन चेत् सावयवोऽणुः प्रसज्यते, सैषोभयतःपाशा रज्जुरिति दुर्घटः सङ्घातः, तस्मात् परमाणवः परस्परेणानाश्लिष्टा एव प्रत्यासत्तिभाजः केशा इवाकाशे समुदिता एवोपलभ्यन्ते न विदूरवर्तिन इति प्रतीतं तथा दर्शनमाविद्वदङ्गनाबालम्, परस्परसङ्घट्टस्त्वसम्बध्यमानकत्वादुपेक्षणीय इति । अयुक्तमेतदुच्यते परेणाप्रेक्षितवस्तुयाथात्म्येनेति यथा तथा विभाव्यते, परमाणवो हि रूपरसगन्धस्पशोत्मकत्वात् सप्रतिघाः संयोगकाले सव्यवधयोन परस्परव्याप्त्या वर्तन्ते रूपाद्यवयवत्वात्, स्तम्भकुम्भादिवत, प्रतिपादितश्चायमर्थः प्राक्-स्यान्निरवयवः स्यात् सावयवः परमाणुर्द्रव्यभावभेदात्, अपि च द्रव्यात्मनाऽणुरेकः प्रत्यस्त मितस कलभेदस्तत्र कथं सर्वशब्दः प्रयुज्यमानोऽनेकवस्तुविषयो निरवशेषाभिधायितया लोकेऽविगानेन रूढो नासम्बन्धार्थो भवेत् ? कथं वा नानाध्यवसितस्य वस्तुनः कस्यचिदेवाभिधाय्येकदेशशब्दो निभेदपरमाणुविषये प्रसज्यमानः साध्यमानं प्रतिपत्स्यते ? सोऽयमेवंविकल्पद्वयानुसारी वचनप्रयोगः शब्दार्थानभिज्ञानानामत्यन्तप्रसिद्धलोकव्यवहारपराङ्मुखानां जडिमानमातनोति क्षुद्रसत्त्वानाम् । आशङ्कते चैवंप्रकारान् कातरपुरुष एवैकान्तवादी, न पुनः सकलवादपरमेश्वरस्याद्वादसमाश्रयोपपन्नातुलसामर्थ्यः स्याद्वादीति । न च परमाण्वन्तरेण सह घटमानोऽसौ केनचिद् देशेन युज्यते निरवयवत्वात्, किन्तु स्वयमेवावयवो द्रव्यान्तरावयवद्रव्यरहितः परमाणुना सह भेदेन योगमायाति, न चाण्वन्तरमाविशति, स हि सक्रियः परमाणुस्थमाकाशमेवाविशति, अणुस्तिष्ठत्यस्मिन्नित्यणुस्थं करणाधिकरणयोर्घअर्थे कविधानम् । स्थानापाव्यधिहतिबुध्यर्थमणौ वा तिष्ठतीति विवक्षावशादणुसम्बद्धमुच्यते । यद्यावेशो नास्ति देशे न तर्हि योगः प्रसक्तः, परस्परमनाश्लिष्टत्वाद् धगुलवदिति, अयमनपदेशः, न वयमावेशतो योगं सङ्गिरामहे, किन्तु निरवयवत्वात, तस्य द्रव्यप्रदेशान्तरं यमुलस्येव संयुक्तं नास्ति, स्वयमेवासौ युक्त इत्येतावदभिदध्महे, हेतोश्वानैकान्तिकता, सूक्ष्मक्षेत्रच्छेदप्रविभक्तव्यङ्गुलपर्यन्तवर्तिनौ प्रदेशौ निरन्तरावस्थितावनाविशन्तावेव संयुक्तौ, न च देशेन, सूक्ष्मत्वादन्यस्य देशान्तरस्यासम्भवात्, न च नाङ्गुल्यौ युक्ते, निरन्तरत्वात् , न चान्योन्यावेशः प्रदेशानाम् , ब्यङ्गुलाभावप्रसङ्गादिति ।। ननु च संस्थानित्वात् सावयव एवाणुः किमिति निरवयवता अभ्युपेयत इति ? उच्यते-द्रव्यावयवकृतं संस्थानम् , तचावयविनो घटादेरवयवेषु सत्सु भवति, ते
१ . अनन्तानामनन्तानन्तानां ' इत्यधिको घ-पाठः। २' स्तम्भादिवत्' इति क-ख-पाठः। ३ 'संघ. टमानो' इति क-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org