________________
स्वोपज्ञभाष्य–टीकालङ्कृतम्
अथ पुद्गलानां कथमवगाहो लोकाकाश इत्युच्यते
सूत्रम् - एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥ ५- १४ ॥
टी० - एकप्रदेशादिष्वित्यादि सूत्रम् । एकप्रदेशादिष्विति समानाधिकरणगर्भो बहुव्रीहिः, एकवासौ प्रदेशचेति, प्रदेश उक्तलक्षणः, एकप्रदेश आदिर्येषां तेष्वेकप्रदेशादिषु प्रदेशेषु पुगलानामणुप्रभृतीनामवगाहो व्याख्येयः ।
सूत्रं १५ ]
भा० - अप्रदेश सङ्ख्ये या सङ्ख्येयाने न्तप्रदेशानां पुद्गलानामेकादिष्वाकाशप्रदेशेषु भाज्योऽवगाहः । भाज्यो विभाष्यो विकल्प्य इत्यनर्थान्तरम् । तद्यथा- परमाणोरेकस्मिन्नेव प्रदेश, व्यणुकस्यैकस्मिन् द्वयोश्च व्यणुकस्यैकस्मिन् द्वयोस्त्रिषु च एवं चतुरणुकादीनां सख्येपासङख्यैयप्रदेशस्यैकादिषु सङ्ख्येयेषु असख्येयेषु च अनन्तप्रदेशस्य
पुद्गलानामवगाहः
३३३
च ॥ १४ ॥
टी० - अप्रदेशेत्यादि भाष्यम् । अविद्यमानद्रव्यान्तरप्रदेशः परमाणुरप्रदेशः, स्वयं च प्रदेशः,प्रचयविशेषात् सङ्ख्येयपरमाणुघटितः सङ्ख्येयप्रदेश: पुद्गलः, एवमसङ्ख्ये यानन्तप्रदेशावपि स्कन्धौ पुद्गलाविति वाच्यौ, एकादिष्वा काशप्रदेशेष्विति सूत्रावयवं स्पष्टतरेण वृत्तिवाक्येन व्याचष्टे - एक आदिर्येषामाकाशप्रदेशानां तेषु भाज्योऽवगाहः अप्रदेशादीनाम्, अनेकार्थत्वाद् धातूनां विभाष्यो विकल्प्य इत्याह, विशेषेणातिशयेन परमाणुपक्रमेण भाषणीयो व्याख्येयः, विकल्पस्तु भेदसम्भवे, यथा द्व्यणुकस्यैकस्मिन् प्रदेशे द्वयोश्चेत्यादि भाष्यं सुज्ञानमेव, परमाणोस्तु भेदाभावादेकस्मिन्नेव प्रदेशेऽवगाह इति विकल्पाभावः, कथं पुनरेकत्र काशप्रदेशेऽत्यन्तसूक्ष्मे ऽसङ्ख्येयादिप्रदेशाः स्कन्धाः प्रतिष्ठां प्रतिपद्यन्ते १ न हि घटे चतुरुदधिजलावस्थानमस्ति, अतिबहुत्वादल्पावकाशत्वाच्च घटस्येति । अत्रोच्यते - ननु प्रचयविशेबाद् दन्तिदन्तशकलमल्पप्रदेशावगाहि दृष्टम्, भेण्डखण्डं तु तावत्परिमाणमेव बहुतराकाशप्रदेशव्यापि दृष्टम्, अथ च बहुतरावयवता कुञ्जरदन्तशकले, तस्माद् परिणतिविशेष एवासौ तादृशः परमसूक्ष्मो येनानन्ता अपि परमाणवः स्कन्धीभूताः प्रदेशमेकमाश्रित्य विहायसो वर्तन्ते, यथा वाऽतिनिबिडेनायस्पिण्डेन व्याप्ते नभोदेशे निरन्तरे भस्त्रासमीरणसमीरिताः पुनर्विभावसोरवयवास्तत्रानुमज्जन्ति, विध्याप्यमाने च विगतरन्ध्रेऽयसि प्रतप्ते वारिलेशाः सूक्ष्मपरिणामवर्तिनो निर्व्याहति प्रविशन्त्येवेत्येवमागोपालाङ्गनादिजनप्रतीतमाकाशस्य दुर्भरत्वमिति मां मुहः, सिकताकणनिकरेण वा परिपूरिते प्रस्थ के प्रस्थ एवापरोऽपां विशन् दृष्टः, एकप्रदीपप्रभावितानकावभासिते च गर्भगृहकादौ प्रदीप सहस्रप्रभाजालाकारपरिणतपुद्गलानुप्रवेशः प्रत्यक्षप्रमाणसमधिगतस्तद्वदेवैकाकाशदेशे घनपरिणतिविशेषाभ्युपगमादनन्तपरमाणुघटनाविनिर्मितस्कन्धावस्थानमवसेयमिति ॥ १४ ॥
१ 'नन्तानां' इति क-ख - पाठः । २ एकः संख्येयशब्दोऽधिकः ग-पाठः । ३ 'विकल्प्यस्तु' इति ग-पाठः । ४' रेकाकाश' इति ग-पाठः । ५ एवापरः पयसां प्राविशन्' इति ग-पाठः ।
·
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org