________________
तत्वार्थाधिगमसूत्रम्
[ अध्याय: ५
भा० - अनादिरमध्योऽप्रदेशो हि परमाणुः ॥ ११ ॥ परमाणोः स्वरूपम् टी० - यस्मादादिमध्यान्त्यप्रदेशैः परिहीण एव परमाणुरिष्यते, अप्रदेशग्रहणादन्तपरिग्रहः, अथवाऽऽदि मध्यग्रहणादर्थप्राप्तमेवान्त्यग्रहणम्, अस्मिन् पक्षे अप्रदेश इति प्रतिविशिष्टप्रदेशनिराकरणमेव कृतं भवति, आदिमध्यान्तप्रदेशैरप्रदेशो न रूपादिभिरिति । न चादिमध्यान्तावयवनिबन्धनं वस्तुत्वं प्रतीतम्, विनाऽपि तैर्विज्ञानाद्युपलब्धेः, अविभागत्वादेव च व्योमानुप्रवेशोऽपि प्रत्याख्यातः, न च सर्वगतत्वव्याघातो व्योम्नः, सकलवस्तु सम्बन्धित्वेनाभ्युपगम्यमानत्वात् प्रसिद्धविज्ञानक्षणवत्, अतः स्वयमेव प्रदेशोऽसौ, न तस्यापरे प्रदेशाः सन्ति द्रव्यस्वभावाः, सर्व च साधनं तन्निराकरणेऽभिधीयमानमनुपासितयथार्थगुरुवचसा परेणैवमधिगतद्रव्यपर्याय नयद्वय सद्भावेन स्याद्वादिना विघटनीयमागमयुक्त्यनुसारिणेति ॥ ११ ॥ अथैतानि धर्माधर्मपुद्गलजीवद्रव्याणि किं व्योमवत् स्वात्मप्रतिष्ठान्याहोस्विज्जलादिवदाधारान्तरप्रतिष्ठानीति १ । उच्यते—निश्चयनयाभिप्रायात् सर्वमेव वस्तु स्वात्मप्रतिष्ठं ब्योमवत्, व्यवहाराभिप्रायाद् धर्माधर्मपुद्गलजीवानाम्
३३२
सूत्रम् - लोकाकाशेऽवगाहः ॥ ५-१२ ॥
भा० - अवगाहिनामवगाहो लोकाकाशे भवति ॥ १२ ॥
भवगाहविचारः
टी० - अवगाहिनाम् अनुप्रवेशवतामवगाहः प्रवेशः प्रतिष्ठा पुद्गलादीनां धर्माधर्मद्रव्यद्वयावगाढे व्योम्नि भवति, धर्माधर्मयोश्थाकाशेऽवगाहोऽनादिकालीनः, परस्पराश्लेषपरिणत्या तथासन्निवेशात्, इतरत्राकाशेऽवगाहो नास्ति जीवादीनाम्, धर्माधर्माभावात्, गतिस्थित्युपत्रहकारित्वात् धर्माधर्मयोः, तावेव तत्र कस्मान्न स्तः १ न हि स्वभावे पर्यनुयोगोऽस्तीत्युपेक्ष्य लोकाकाशेऽवगाहो धर्मादीनामेतावदुक्तम् ॥ १२ ॥
दंत्वना वाच्यं किं सर्वात्मनाऽवगाहः सर्वलोकाकाशप्रदेशव्यात्या क्षीरोदकविषरुधिरादिवदुत पुरुषहदवदिति ? । एतद् विभज्योच्यते
सूत्रम् - धर्माधर्मयोः कृत्स्ने ॥ ५-१३ ॥
भा० - धर्माधर्मयोः कृत्स्ने लोकाकाशेऽवगाहो भवतीति ॥ १३ ॥ टी. - सर्वत्र लोकाकाशे धर्माधर्म योरयुतसिद्धावपि चन्द्रमण्डलाधेय चन्द्रिकावदवगाहो न परतः, चेतनावच्छरीर एवोपकारदर्शनाद् बहिरदर्शनाच्च तन्मात्रवर्तित्वमध्यवसीयते, अतः क्षीरोदकवदन्योन्यावगाहपरिणत्या व्यवस्थानं, न पुरुषहदवदिति व्यवच्छिनचि कृत्स्नशब्दोपादानादिति ॥ १३ ॥
१' धर्मादीनां इति क-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org