________________
२८८ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ४ सवितुश्च द्वियोजनान्तरितमार्गाणां ज्यशीतं मण्डलशतम् । तेषां हि पूर्वविदेहदिवसान्ताद पूर्वदक्षिणविदिग्भाजो मार्गान् मार्गान्तरगामिनस्त्रिषष्टिरुदयान्निषधमस्तके दक्षिणक्षेत्रवर्तिमनुप्यचक्षुर्दश्या द्वौ हरिवर्षज्याकोव्यां, शेषमष्टादशोत्तरं शतं लवणोदधाविति, अपरविदेहान्तेऽप्येवं, द्वितीयस्य तु पश्चिमोत्तरविदिग्भाजो नीलमस्तके रम्यके लवणोदधौ चोत्तरक्षे. प्रजानां दृष्टिपथस्थायिन इति, उदयविधानात् त्वस्तमयं विद्यात् । चन्द्रमसः पञ्चदश मण्डलानि । सर्वोत्तरोदयस्य सर्वदक्षिणोदयस्य चान्तरं पञ्च योजनशतानि दशोत्तराणि सवितुः, तत्राशीतं योजनशतं जम्बूद्वीपे लभ्यते, त्रीणि योजनशतानि त्रिंशदुत्तराणि लवणोदधौ लभ्यन्तेर्कस्य । सूर्या इत्यादि भाष्यम् । एते किल तिर्यग्लोकव्यवस्थिताः । शेषास्तु प्रकीर्णतारका ऊर्ध्वलोके भवन्ति इति । आचार्य एवेदमवर्गच्छति, नत्वार्षमेवमवस्थित, सर्वज्योतिष्काणां तिर्यग्लोकव्यवस्थानादिति ।।
भा०-अष्टचत्वारिंशद् योजनैकषष्टिभागाः सूर्यमण्डलविष्कम्भः, चन्द्रमसः षट्पञ्चाशत्, ग्रहाणामधयोजनम्, गव्यूतं नक्षत्राणाम्, सर्वोत्कृष्टायास्ता
राया अर्धक्रोशः, जघन्यायाः पञ्च धनुःशतानि, विष्कम्भार्षसूर्यादीनां विष्कम्भ:
बाहल्याश्च भवान्त सर्वे सूर्यादयः, नृलोक इति वर्तते । बहि
स्तु विष्कम्भवाहल्याभ्यामतोऽधं भवति ॥ टी.-अष्टचत्वारिंशदित्यादि । आयामविष्कम्भाभ्यामिदमादित्यमण्डलप्रमाणम्, तथा चन्द्रमसः सुज्ञानम्, अर्धयोजनप्रमाणं ग्रहविमानम्, नक्षत्रविमानं गव्यूतप्रमाणम्, आयुषा सर्वोत्कृष्टायास्तारकाया अर्धक्रोशप्रमाणं विमानम्, सर्वजघन्यायाः पश्च धनुःशतानि, शेषा विमध्यमा प्रतिपत्तिर्वक्तव्येति । एषामेव सूर्यादिविमानानां बहलत्वनिर्दिदिक्षया आह-विष्कम्भाधबाहल्याश्च भवन्ति नृलोकान्तर्वर्तिसूर्यादिविमानानि स्वविष्कम्भाषेन बहलानि भवन्ति । तद्यथा-सवितुर्विमानमण्डलं चतुर्विंशतिरेकषष्टिभागा योजनस्य, एवं शेषाणामपि वाच्यम् । अथ मानुषोत्तरात् परतः कथमित्यत आह-बहिस्तु विष्कम्भवाहल्याभ्यामतोऽधं भवति नृलोकान्तर्वर्तिनां सवित्रादिविमानानां यो विष्कम्भोऽभिहितस्तस्याधं बहिवर्तिनामुष्णकरादि विमानानां विष्कम्मो भवति, यथाऽन्तर्वतिनः आदित्यस्याष्टचत्वारिंशदेकपष्टिभागा योजनस्य विमानविष्कम्भस्तदर्ध चतुर्विशतिरेकषष्टिभागा योजनस्य बहिर्वर्तिनः सवितुर्विमानविष्कम्भ इत्येवं शेषाणामपिवाच्यम्, तथाऽन्तर्वर्तिनः सवितुश्चतुर्विशतिरेकषष्टिभागा योजनस्य विमानबाहल्यमुक्तं बहिर्वर्तिनस्तदर्धं द्वादशैकषष्टिभागा योजनस्य विमानबाहल्यम्, एवं शेषाणा
१ अशीत्यधिकाष्टाशत्यामवस्थितात् चन्द्राद ऊर्श्वभागीये लोके, ततः विंशत्यामवस्थानाभ्युपगमात्, नवशत्याध तिर्यग्लोकत्वेनास्वीकारात्, प्राकू तिर्यग्लोके इत्युक्तिस्तूप्रभागे सूर्यादीनां तारादिवदनियततावारणार्थम् । २ 'वाच्या' इति क-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org