________________
सूत्र १४] स्वोपज्ञभाष्य-टीकालङ्कृतम्
२८७ प्रादक्षिण्येन नापसव्येन मेरोः, लोकस्थित्यनुभवाद् विमानान्येव नृलोके भ्रमणशीलानि भवन्ति, न पुनरभ्रमन्त्यपि । ये वा प्रेरयन्ति । तानि च पृथिवीकायनिर्माणान्यातपनामकर्मोदयात् स्फटिकमणिप्रकाशानि भ्राजिष्णूनि कपित्थफलार्धसंस्थानानि भवन्ति ॥ ननु च ध्रवः सर्वदा ध्रुवस्तत्रैवोपलभ्यते, नहि तस्य मेरुप्रदक्षिणा नित्या गतिरस्ति, स च ज्योतिकस्तदेतत् कथमिति ? उच्यते-पञ्चप्रकारा सूर्यादयो ज्योतिष्काः, तत्रैको भेदस्तारकाख्यस्तस्याप्येकदेशो ध्रुवो यदि मेरोःप्रादक्षिण्येन (प्र)वज्यांन प्रतिपद्यते ततस्तदगत्या किमवशेषाणां नानुशासितव्या गतिः । यथा हि राजादिप्रधानपुरुषप्रयाणकप्रदाने तिष्ठत्स्वपि केषुचित् प्रयाणकं दत्तं स्कन्धावारेणेति लोकः प्रभाषते तथा प्रधानेष, सूर्यादिषु प्रयात्सु तद्भदैकदेशागमनेऽपि ज्योतिष्का नित्यगतयोऽभिधास्यन्ते । अथवा नित्यगतय इति तत्रैव स्थाने स ध्रुवः परिभ्राम्यति, न तु मेरोः प्रादक्षिण्येन गति प्रतिपद्यते, तथाहि-तदद्यापि ध्रुवताराचक्रमाक्रान्तो. त्तरदिक्कं परिवर्तमानमुपलभ्यते प्रत्यक्षप्रमाणेनैव, अतो मेरुप्रदक्षिणाः केचिनित्यगतयश्च, अपरे नित्यगतयो न मेरुप्रदक्षिणा इति । अथवा मेरुप्रदक्षिणा अनित्या गतिर्येषां ते मेरुपदक्षिणानित्यगतय इत्ययं वाक्यार्थो भवति, न सर्वेषामवश्यंभाविनी गतिभैरोः प्रादक्षिण्येन, किन्तु केषांचिद् भवति केषांचिन्न, गतिः पुनरवश्यंभाविनी तथाऽन्यथा वा, न तस्या निषेध इति । एकादशस्वेकविंशेष्वित्यादि गतार्थं प्रायः । मेरोश्चतुर्दिशमिति दिक्शब्देन समानार्थो दिशाशब्दस्तमनुसन्धाय भाष्यकारेणोक्तं चतुर्दिशमिति ।
अधुना अर्धतृतीयद्वीपान्तर्वर्तिनां सूर्यादीनामियत्तामावेदयितुमाह
भा०-तत्र द्वौ सूर्यो जम्बूद्वीपे । लवणे चत्वारः । धातकीखण्डे द्वादश । कालोधौ द्विचत्वारिंशत् । पुष्करार्धे द्विसप्ततिः । इत्येवं मनुष्यलोके द्वात्रिंशत्
सूर्यशतं भवति । चन्द्रमसामप्येष एव विधिः । अष्टाविंसंख्या ' शतिनक्षत्राणि । अष्टाशीतिहाः । षट्क्षाष्टिसहस्राणि नव
शतानि पञ्चसप्ततीनि ताराकोटाकोटीनामेकैकस्य चन्द्रमसः परिग्रहः । सूर्याचन्द्रमसो ग्रहा नक्षत्राणि च तिर्यगलोके, शेषास्तूर्ध्वलोके ज्यो. तिष्का भवन्ति ।
टी.-तत्र द्वौ सूर्यावित्यादि । एते तु स्वतापच्छेदतः प्रकाशयन्तः प्रदक्षिणं चरन्ति,ता पक्षेत्र चैषामन्तः सङ्कुटं बहिर्विशालं नालककुसुमाकृतिः सप्तचत्वारिंशद्योजनसहस्राणि त्रिषष्ट्यधिकानि शतद्वयोत्तराणि योजनैकषष्टिभागाश्चैकविंशतिः( ४७२६३२९ ) प्रत्येकं सूर्याणां, मनुष्यक्षेत्रे च द्वात्रिंशदुत्तरं सूर्यशतमवगन्तव्यं, चन्द्रमसोऽप्येतावन्त एव बोद्धव्याः । अष्टाविंशतिनक्षत्राण्यभिजिता सह, ग्रहाणामष्टाशीतिर्भसराश्यादीनाम्, एकस्य खलु चन्द्रमसस्ताराः कोटीनां कोव्य एतावत्यो भवन्ति षट्पष्टिसहस्राणि नव च शतानि पञ्चसप्तत्यधिकानि।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org