________________
२७०
तत्त्वार्थाधिगमसूत्रम् प्राणी जघन्येनोत्कर्षेण वेति । कायस्थितिर्मनुष्यो भूत्वा तिर्यग्योनिर्वा मरणमनुभूय पुनर्म वेव मनुष्यः तिर्यक्ष्वेव तिर्यग्योनिनॆरन्तर्येण कतिकृत्वः समुत्पद्यते । तत्र मनुष्याणां या के त्रिपल्योपमान्तमुहूर्ते परापरे भवस्थिती, कायस्थितिः सप्ताष्टौ वा भवग्रहणा प्रकर्षतः सप्ताष्टौ वेति नैरन्तर्येण मानुषः स्यात्, कथं पुनरिदं भाव्यते-पूर्वकोट्यायुर्मनुष्यो मृत पुनः पुनः पूर्वकोट्यायुरेव मनुष्यः सप्तकृत्वः प्रादुरस्तीति, अष्टमभवे तु देवकुरुत्तरकृय उत्पद्यते पश्चाद् देवलोकं गच्छति । तिर्यग्योनिाजनां चेत्यादि । उक्ते भवस्थिती सङ्ग्रहता भा०-व्यासतस्तु शुद्धपृथिवीकायस्यपरा द्वादश वर्षसहस्राणि,खरपृथिवीका
, यस्य द्वाविंशतिः,अपकायस्य सप्त,वायुकायस्य त्रीणि,तेजाकायपृथ्व्यादीनामायुमा स्य त्रीणिरात्रिंदिनानि,वनस्पतिकायस्य दश वर्षेसहस्राणि।ए. नम्
षांकायस्थितिरसङ्ख्येयाः अवसर्पिण्युत्सर्पिण्यः वनस्पतिकायस्यानन्ताः। दीन्द्रियाणां भवस्थितिद्वादश वर्षाणि । त्रीन्द्रियाणामेकोनपश्चाशदा. त्रिंदिनानि।चतुरिन्द्रयाणां षण्मासाः । एषां कायस्थितिःसङ्ख्येयानि वर्षसहस्राणि । पञ्चेन्द्रियतिर्यग्योनिजाः पञ्चविधाः। तद्यथा-मत्स्याः उरगाः परिसपोःपक्षि. णश्चतुष्पदा इति। तत्र मत्स्यानामुरगाणां भुजगानांच पूर्वकोट्येव । पक्षिणांपल्योपमासङ्ख्येयभागः । चतुष्पदानां त्रीणि पल्योपमानि गर्भजानां स्थितिः। तत्र म त्स्यानां भवस्थितिः पूर्वकोटिस्त्रिपश्चाशदुरगाणां द्विचत्वारिंशत् भुजगानां द्वि. सप्ततिः पक्षिणां स्थलचराणां चतुरशीतिवर्षसहस्राणि सम्मच्छिमानां भवस्थितिः । एषां कायस्थितिः सप्ताष्टौ भवग्रहणानि । सर्वेषां मनुष्यतिर्यग्योनिजानां कायस्थिति रप्यपरा अन्तर्मुहूर्तेवेति ॥ १८॥
टी-व्यासतस्तु शुद्धपृथिव्या द्वादश वर्षसहस्राणि खरधरणेाविंशतिरित्यवमादि सुज्ञानम्, एषां पृथिव्यतेजोवायुप्रत्येकवनस्पतीनां कायस्थितिरसङ्येया अवसर्पिण्युत्सर्पिण्यः साधारणवनस्पतेरनन्ता अवसर्पिण्युत्सर्पिण्यः । द्वीन्द्रियाणामित्यादि सुज्ञाना भवस्थितिः । एषां कायस्थितिः सङ्ख्येयानि वर्षेसहस्राणि पञ्चेन्द्रियेत्यादि सुज्ञानम् । सप्ताष्टौ वा भवग्रहणानि मनुष्यवद्भावनीयानि । सर्वेषामित्यादि मनुष्यतिरश्चामपरा कायस्थितिर्जघन्याऽन्तर्मुहूर्तप्रमाणैव भवतीति ॥ १८ ॥
ग्रन्थानमङ्कतः ८२१२ ( ? ) ॥ इति श्रीतत्त्वार्थसूत्रेऽर्हत्प्रवचने भाष्यानुसारिण्यां टीकायां लोकप्रज्ञप्ति -
माध्यायस्तृतीयः॥ ३॥ ॥ इति तृतीयोऽध्यायः॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org