________________
सूत्रे १७-१८ ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
अथैते मनुष्या आर्यादिभेदवर्तिनः कियन्तं कालमनुपालयायुः प्राणान् विजहतीत्याह-सूत्रम् - नृस्थिती परापरे त्रिपल्योपमान्तर्मुहूर्ते ॥ ३–१७॥
To
भा० - नरो नरा मनुष्या मानुषा इत्यनर्थान्तरम् । मनुष्याणां परा स्थितिस्त्रीणि पल्योपमान, अपरा अन्तर्मुहूर्तेति ॥ १७ ॥
0
टी० - नरो नरा इत्यादि भाष्यम् । पर्यायाख्यानेन व्याख्यातमेतत् नृशब्दस्य, पराउत्कृष्टा स्थितिरायुषोऽवस्थानं जीवितकालः त्रीणि पल्योपमानि मनुष्याणाम्, एतानि चाद्वापल्योपमेन जीवानामायूंषि गण्यन्ते, अपरा अन्तर्मुहूर्ता जघन्या स्थितिरायुषोऽन्तर्मुहूर्तपरिमाणा भवतीति ॥ १७ ॥
नरायुषोमानम्
२६९
सूत्रम् - तिर्यग्योनीनां च ॥ ३–१८ ॥
भा० - तिर्यग्योनीनां च परापरे स्थिती त्रिपल्योपमातिर्यगायुर्मानम् न्तर्मुहूर्ते भवतः यथासङ्ख्यमेव । पृथक्करणं यथासङ्ख्यदोषविनिवृत्त्यर्थम्, इतरथा यद्येकमेव सूत्रमभविष्यत् । उभयत्र चोभे यथासंख्यं स्यातामिति ।
डी० – तिर्यग्योनीनामप्यत्रैवोच्यते स्थितिरायुषः समानप्रक्रमत्वात् । तिर्यग्योनीनां चेत्यादि भाष्यम्। तिर्यग्योनयः - पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियाः तेषापरापरे स्थीवितव्यस्य त्रिपल्योपमान्तर्मुहूर्ते भवतः यथासङ्ख्यम् उत्कृष्टजघन्ये स्थिती बोद्धव्ये, पृथग्योगकरणं यथासङ्ख्यदोषविनिवृत्त्यर्थमित्यादि । नृतिर्यग्योनीनां स्थिती परापरे त्रिपल्योपमान्तर्मुहूर्ते इत्येवं न्यासे सति त्रिपल्योपमा परा स्थितिर्मनुष्याणाम्, अपरा स्थितिस्तिरश्चामन्तर्मुहूर्तप्रमाणेति एवं स्यात् सूत्रार्थ इत्याचार्याभिप्रायः । न खल्वेवमपि न्यस्यमाने कवि दोषः, स्थिती परापरे इति समुदितमेवेदं समासपदत्वादभिसम्भन्त्स्यते, नृणां स्थिती परापरे त्रिपल्योपमान्तर्मुहूर्ते तिरवां च परापरे त्रिपल्योपमान्तमुहूर्ते, व्याख्यानतो वा विच्छेदः आर्षानुवादित्वाद वाऽस्य सूत्रप्रबन्धस्येति ।
भा०-द्विविधा चैषां मनुष्यतिर्यग्योनिजानां स्थितिः - भवस्थितिः कायस्थितिश्च । मनुष्याणां यथोक्ते त्रिपल्योपमान्तर्मुहूर्ते परापरे भवस्थिती । कायस्थितिस्तु परा सप्ताष्टौ वा भवग्रहणानीति । तिर्यग्योनिजानां च यथोक्ते समासतः परापरे भवस्थिती ।
टी. - द्विविधा चैषामित्यादि भाष्यम् । नृतिरथां द्विप्रकारा स्थितिः - भवस्थितिः कायस्थितिश्च । तत्रःभवस्थितिर्मनुष्यजन्म लब्ध्वा तिर्यग्जन्म वा कियन्तं कालं जीवति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org