SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ सूत्रं १६ ] स्वोपज्ञभाष्य–टीकालङ्कृतम् २६७ एकोरुकाणामेकोरुकद्वीपः । एवं शेषाणामपि स्वनामभिस्तुल्यनामानो वेदि - तव्याः । शिखरिणोऽप्येवमेवेत्येवं षट्पञ्चाशदिति ॥ १५ ॥ टी० - तद्यथा - हिमवतः प्राक् पञ्चाच्च विदिक्षु इत्यादि भाष्यम् । हिमवतः प्राग्भागे पथाद्भागे च विदिक्षु पूर्वोत्तरादिकासु चतुसृषु, त्रीणि योजनशतानि लवणजलधिमवगाय द्वीपकाः प्रथमतः सन्निविष्टास्तासां मनुष्यजातीनामेको रुकादिकानाम्, तत्र पूर्वोत्तरस्यां दिशि त्रीणि योजनशतान्यवगाह्य लवणसागरजलं त्रिशतायामविष्कम्भः प्रथम एकोरुकाभिधानो द्वीप एकोरुकपुरुषाणामधिवासः द्वीपनामतः पुरुषनामानि ते तु सर्वाङ्गोपाङ्गसुन्दरा दर्शनमनोरमणाः नैकोका एवेत्येवं शेषा अपि वाच्याः, तथा दक्षिणपूर्वस्यां दिशि लवणज - लमवगाह्य त्रीणि शतानि त्रिशतायामविष्कम्भः प्रथमो द्वीप आभोसिकाभिधान आभा - सिकेमनुष्यावासः, तथा दक्षिणापरस्यां दिशि हिमवतस्त्रीणि शतानि लवणजलमवगाह्य त्रिशतायामविष्कम्भो लाङ्गुलिकाभिधानः प्रथमद्वीपो लाङ्गलिकमनुष्यावासः, तथोत्तरापरस्यां त्रीणि शतान्यवगाह्य लवणजलं त्रिशतायामविष्कम्भः प्रथमद्वीपो वैषाणिकाभिधानः वैषाणिकमनुष्यावासः। एवं हय कर्ण- गजकर्ण-गोकर्ण - शष्कुलीकर्णाश्चत्वारि योजनशतान्यवगाह्य हिमवतो लवणोदधिं पूर्वोत्तरादिकासु विदिक्षु चतुर्योजनशतायामविष्कम्भावत्वारो द्वीपा भवन्ति, एवं शेषचतुष्काण्यपि विभजनीयानि यावत् सप्तमो द्वीपः शतानि नवावगाह्य लवणजलधिं नवयोजनशतायामविष्कम्भो विदिशि विदिशि भवतीति, आदर्शमुख-मेामुख- हयमुख - गजमुखाः अश्वमुख-हस्तिमुख-सिंहमुख- व्याघ्रमुखाः अश्वकर्ण सिंहकर्ण- हस्तिकर्ण - कर्णप्रावरणाः उल्कामुखविद्युज्जिह-मेपमुख- विद्युद्दन्ताः घनदन्त- गूढदन्त - विशिष्टदन्त-शुद्धदन्ताख्याः । एते च युग्मप्रसवाः पल्योपमासङ्ख्येय भागायुपोऽष्टधनुः शतोच्चाः पुरुषा भवन्ति । एवमेवाष्टाविंशतिरन्तरद्वीपकानां हिमवद्विरिप्रागपरपर्यन्तप्रवाहा भवन्त्युक्तेन न्यायेन । तथैरावतक्षेत्र विभागकारिणः शिखरिणोऽप्येवमेव पूर्वोत्तरादिविदिक्षु क्रमेणामुनैव नामकलापेन चान्तरद्वीपकानामष्टविंशतिर्भवत्येकत्र षट्पञ्चाशदन्तरद्वीपका भवन्ति । एतच्चान्तरद्वीपकभाष्यं प्रायो विनाशितं सर्वत्र कैरपि दुर्वि - दुग्धैर्येन षण्णवतिरन्तरद्वीपका भाष्येषु दृश्यन्ते । अनार्ष चैतदध्यवसीयते जीवाभिगमादिषु षट्पञ्चाशद्न्तरद्वीपकाध्ययनात् नापि वाचकमुख्याः सूत्रोल्लङ्घनेनाभिदधत्यसम्भाव्यमानत्वात् तस्मात् सैद्धान्तिकपाशैर्विनाशितमिदमिति ॥ १५ ॥ तदेतस्मिन्नार्यानार्यविकल्पे मनुष्यक्षेत्रे काः कर्मभूमयोऽकर्मभूमयो वेत्यत आहसूत्रम् — भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः ॥ ३–१६ ॥ भा० - मनुष्यक्षेत्रे भरतैरावतविदेहाः पञ्चदश कर्मभूमयो भवन्ति । अन्यत्र देवकुरूत्तरकुरुभ्यः । १ 'आभाषिका' इति क-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy